विघाता
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विघाता, [ऋ] पुं, (विदधातीति । वि + धा + तृच् ।) ब्रह्मा । इत्यमरः ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ६४ । “अविज्ञाता सहसांशुर्विधाता कृतलक्षणः ॥” “विशेषेण शेषदिग्गजभू भूधरात् समस्तभूतानि च दघातीति विधाता ।” इति तत्र शाङ्कर- भाष्यम् ॥ * ॥ महेश्वरः । यथा, महाभारते । १३ । १७ । १०४ । “उषङ्गुश्च विधाता च मान्धाता भूतभावनः ॥”) कामदेवः । इति मेदिनी । ते, १६ ॥ मदिरा । इति राजनिर्घण्टः ॥ भृगुमुनिपुत्त्रः । तस्य भार्य्या मेरुकन्या नियतिः । तस्य पुत्त्रः प्राणः । तस्य सुतः वेदशिराः कविश्च । इति श्रीभाग- वतमतम् ॥ * ॥ विधातुर्विचित्रा गतिर्यथा, -- कंस उवाच । “तृणेन पर्व्वतं हन्तुं शक्तो धाता च दवतः । कीटेन सिंहशार्दूलं मशकेन गजं तथा ॥ शिशुना च महावीरं महान्तं क्षुद्रजन्तुभिः । भूषिकेण च मार्ज्जारं मण्डूकेन भुजङ्गमम् ॥ एवं जन्येन जनकं भक्ष्येणैव च भक्षकम् । वह्रिना च जलं नष्टं वह्निं शुष्कतृणेन च ॥ पीताः सप्त समुद्राश्च द्बिजेनैकेन जह्नना । धातुर्गतिर्विचित्रा च दुर्ज्ञेया भुवनत्रये ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजम्मखण्डे ७ अध्यायः ॥ अपि च । भलन्दन उवाच । “सम्बन्धो हि विधिवशो न मे साध्यो व्रजाधिप । प्रजापतिर्योगकर्त्ता जन्मदाताहमेव च ॥ का कस्य पत्नी कन्या वा वरः को वा ससाधनः ॥ कर्म्मानुरूपफलदः सर्व्वेषां कारणं विधिः । भवितव्यं कृतं कर्म्म तदमोघं श्रुतौ श्रुतम् ॥ अन्यथा निष्फलं सर्व्वमनीशस्योद्यमो यथा । वृषभानुप्रिया धात्रा लिखिता चेत् सुता मम ॥ पुरा भूतैव को वाहं केनान्येन निवार्य्यते ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १७ अः ॥ * ॥ अन्यच्च । “त्यागे दोषः कामुकीनां शापभाक् पापभाक् गृही । ब्रह्मा जगद्बिधातापि न विरक्तः कलत्रवान् । त्यागे दोषस्तत् कदाचिन्नास्माकं त्यक्तयोषि- ताम् ॥” * ॥ अपरञ्च । “स्वान्तर्दुःखेन दुःखार्त्तो यो यं शपति निश्चितम् । तं शापं खण्डितुं शक्तो न विधाता जगत्- प्रभुः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २० अः ॥ * ॥ असौ जगतां पतिर्यथा, -- “द्वौ धाता च विधाता च पौराणौ जगतां पती । द्वौ शास्तारौ त्रिलोकेऽस्मिन् धर्म्माधर्म्मौ प्रकी- र्त्तितौ ॥” इति वह्रिपुराणे गणभेदनामाध्यायः ॥ (त्रि, मेधावी । इति निघण्टुः । ३ । १५ ॥ विहितकर्म्मानुष्ठाता । यथा, मनुः । ११ । ३५ । “विधाता शासिता वक्ता मेत्री ब्राह्मण उच्यते । तस्मै नाकुशलं ब्रूयात् न शुष्कां गिरमीरयेत् ॥” स्रष्टा । सर्व्वसभर्थः । यथा, रघुः । १ । ७० । “तया हीनं विधातर्मां कथं पश्यन्न दूयसे । सिक्तं स्वयमिव स्नेहाद्वन्ध्यमाश्रमपादपम् ॥” जनयिता । दाता । यथा, कुमारे । १ । ५७ । “स्वयं विधाता तपसः फलानां केनापि कामेन तपश्चचार ॥”)
