सामग्री पर जाएँ

विचक्षणः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विचक्षणः, पुं, (विशेषेण चष्टे धर्म्मादिमुपदि- शतीति । वि + चक्ष + “अनुदात्तेतश्च हलादेः ।” ३ । २ । १४९ । इति कर्त्तरि युच् ।) पण्डितः । इत्यमरः ॥ (यथा रघुवंशे । ५ । १९ । “ततो यथावद् विहिताध्वराय तस्मै स्मयावेशविवर्ज्जिताय । वर्णाश्रमाणां गुरवे सवर्णी विचक्षणः प्रस्तुतमाचचक्षे ॥”) निपुणे, त्रि । इति राजनिर्घण्टः ॥ (यथा भाग- वते । १ । ५ । १६ । “विचक्षणोऽस्यर्हति वेदितुं विभो अनन्तषारस्य निवृत्तितः सुखम् ॥” नानार्थदर्शी । यथा ऋग्वेदे । ४ । ५३ । २ “विचक्षलः प्रथयन्नापृणन्नुर्व्वजीजनत् सविता सुम्नमुक्थ्यम् ।” “विचक्षणः विविधं द्रष्टा ।” इति तद्भाष्ये सायणः ॥)

"https://sa.wiktionary.org/w/index.php?title=विचक्षणः&oldid=165873" इत्यस्माद् प्रतिप्राप्तम्