सामग्री पर जाएँ

विचेताः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विचेताः, [स्] त्रि, (विगतं विरुद्धं वा चेतो यस्य ।) विगतचित्तः । (यथा, भागवते । ६ । ११ । ६ । “एवं सुरगणान् क्रुद्धो भीषयन् वपुषा रिपून् । व्यनदत् सुमहाप्राणो येन लोका विचेतसः ॥”) विरुद्धचित्तः । दुष्टचित्तः ॥ तत्पर्य्यायः । दुर्म्मनाः २ अन्तर्म्मनाः ३ विमनाः ४ । इति हेमचन्द्रः ॥ (यथा, महाभारते । ३ । ४९ । १७ । “ये चास्य सचिवा मन्दाः कर्णसौवलका- दयः । ते तस्य भूयसो दोषान् वर्द्धयन्ति वितेचतः ॥” * ॥ विशिष्टं चेतो यस्मादिति । विशिष्टज्ञानहेतु- भूतः । यथा, ऋग्वेदे । १ । ८३ । १ । “तमित् पृणक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः ॥” “विचेतसः विशिष्टज्ञानहेतुभूता आपो यथा अभितः सर्व्वासु दिक्षु सिन्धुं समुद्रं पूरयन्ति तद्वत् ।” इति तद्भाष्ये सायणः ॥ * ॥ विशिष्टं चेतो यस्येति । विशिष्टज्ञानः । यथा, ऋग्- वेदे । १ । ४५ । २ । “श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः ॥” “हे अग्ने विचेतसो विशिष्टप्रज्ञाना देवाः ।” इति तद्भाष्ये सायणः ॥)

"https://sa.wiktionary.org/w/index.php?title=विचेताः&oldid=165916" इत्यस्माद् प्रतिप्राप्तम्