विच्छित्तिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विच्छित्तिः, स्त्री, (वि + छिद् + क्तिन् ।) अङ्ग- रागः । विच्छेदः ॥ (यथा, कामन्दकीयनीति- सारे । १४ । ४४ । “लोभो धर्ग्मक्रियालोपः कर्म्मणामप्रवर्त्तनम् । सत्समागमविच्छित्तिरसद्भिः सह वर्त्तनम् ॥”) हारभेदः । इति मेदिनी । ते, १८५ ॥ छेदः । विनाशः । इति त्रिकाण्डशेषः ॥ (यथा, बृहत्- संहितायाम् । १२ । ६ । “दिनकररथमार्गविच्छित्तयेऽभ्युद्यतं यच्चल- शृङ्गम् ॥”) अङ्गहारः । गेहावधि । इति हेमचन्द्रः ॥ (वैचित्र्यम् । यथा, साहित्यदर्पणे । १० । ७११ । “अनुमानन्तु विच्छित्या ज्ञानं साध्यस्य साध- नात् ॥” स्त्रीणां स्वाभाविकालङ्कारविशेषः ।) यथा, -- “आकल्पकल्पनाल्पापि विच्छित्तिः कान्तिपोष- कृत् ॥” इत्युज्ज्वलनीलमणिः ॥ (यथा च साहित्यदर्पणे । ३ । १३८ । “स्तोकाप्याकल्परचणा विच्छित्तिः कान्ति- पोषकृत् ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विच्छित्तिः [vicchittiḥ], f.
(a) Cutting off or asunder, tearing off; न ध्यातं पदमीश्वरस्य विधिवत् संसारविच्छित्तये Bh.3.11. (b) Breaking off, fracture.
Dividing, separating.
Disappearance, absence, loss, wanting; विच्छित्तिर्नवचन्दनेन वपुषः Śi.16.84.
Cessation.
Colouring the body with paints and unguents, painting colours, rouge; विच्छित्तिशेषैः सुरसुन्दरीणाम् Ś.7.5; Śi.16.84.
Limit, boundary (of a house &c.)
A pause in a verse, cæsura.
A particular kind of amorous gesture, consisting in carelessness in dress and decoration (through pride of personal beauty); स्तोकाप्याकल्परचना विच्छित्तिः कान्तिपोषकृत् S. D.138.
