विच्छिन्नः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विच्छिन्नः, त्रि, (वि + छिद् + क्तः ।) समालब्धः । विभक्तः । इति मेदिनी । ने, १३४ ॥ (यथा, शाकुन्तले १ अङ्के । “यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां यदन्तर्व्विच्छिन्नं भवति कृतसन्धानमिव तत् । प्रकृत्या यद्वक्रं तदपि समरेखं नयनयो- र्न मे पार्श्वे किञ्चित् क्षणमपि न दूरे रथ- जवात् ॥”) कुटिलः । इति हेमचन्द्रः ॥
