सामग्री पर जाएँ

विजिगीषुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विजिगीषुः, त्रि, (विजेतुमिच्छुः । वि + जि + सन् + “सनाशंसभिक्ष उः ।” ३ । २ । १६८ । इति उः ।) जयेच्छाशीलः । यथा, -- “जेतुमेषणशीलश्च विजिगीषुरिति स्मृतः ॥” इति शब्दमाला ॥ (यथा, कामन्दकीयनीतिसारे । ८ । ३ । “रोचते सर्व्वभूतेभ्यः शरीराखण्डमण्डलः । सम्पूर्णमण्डलस्तस्माद्बिजिगीषुः सदा भवेत् ॥”)

"https://sa.wiktionary.org/w/index.php?title=विजिगीषुः&oldid=165981" इत्यस्माद् प्रतिप्राप्तम्