सामग्री पर जाएँ

विज्ञः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विज्ञः, त्रि, (विशेषेण जानातीति । वि + ज्ञा + “आतश्चोपसर्गे ।” इति कः ।) प्रवीणः । इत्यमरः ॥ (यथा, भागवते । ६ । १६ । ६१ । “एवं विपर्य्ययं बुद्धा नृणां विज्ञाभिमानिनाम् । आत्मनश्च गतिं सूक्ष्मां स्थानत्रयविलक्षणाम् ॥”) अस्य पर्य्यायो निपुणशब्दे द्रष्टव्यः ॥ पण्डितः । इति राजनिर्घण्टः ॥ (यथा, नैषधे । ३ । ९६ । “विज्ञेन विज्ञाप्यमिदं नरेन्द्रे तस्मात्त्वयास्मिन् समयं प्रतीक्ष्य । आत्यन्तिकासिद्धिविलम्बसिद्ध्योः कार्य्यस्य कार्य्यस्य शुभा विभाति ॥”)

"https://sa.wiktionary.org/w/index.php?title=विज्ञः&oldid=166013" इत्यस्माद् प्रतिप्राप्तम्