सामग्री पर जाएँ

विटङ्कः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विटङ्कः, पुं क्ली, (विशेषेणटङ्क्यते सौधादिषु इति । वि + टङ्क बन्धने + घञ् ।) कपोतपालिका । पायवार खोप इति भाषा । इत्यमरः ॥ द्वे सौधादिषु प्रान्ते काष्ठादिरचिते गृहपक्षि- स्थाने । कपोतान् पालयतीति कपोतपाली ढात् षण् इति षण् स्वार्थे कः कपोत इत्युपल- क्षणं पक्षिमात्रपालिकेति बोध्यम् । वीन् पक्षिणष्टङ्कयति बध्नाति विटङ्कं टकि क बन्धे षण् विशेषेण टङ्कयत्यत्रेति वा अल् घञ् वा । इति भरतः ॥ (यथा, माघे । ३ । ५५ । “रतान्तरे यत्र गृहान्तरेषु वितर्द्दिनिर्यूहविटङ्कनीडः । रुतानि शृण्वन् वयसां गणोऽन्ते- वासित्वमाप स्फुटमङ्गनानाम् ॥” * ॥ सुन्दरे, त्रि । यथा, भागवते । ३ । १५ । २७ । “देवावचक्षत गृहीतगदौ परार्द्द्य- केयूरकुण्डलकिरीटविटङ्कवेशौ ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विटङ्कः [viṭaṅkḥ], [विशेषेण टङ्क्यते बध्यते इति]

An aviary, dovecot; गुम्फितैरुशनसा सुभाषितैर्यस्य हाटकविटङ्कमङ्कितम् N.18.24; सभारण्यविटङ्कवान् Mb.1.1.88; Mv.5.21.

The loftiest point, pinnacle, elevation; अयमेव महीधरविटङ्कः Māl.1; Vikr.5.77.

"https://sa.wiktionary.org/w/index.php?title=विटङ्कः&oldid=257354" इत्यस्माद् प्रतिप्राप्तम्