विट्पतिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विट्पतिः, पुं, (विषः कन्यायाः पतिः ।) जामाता । इति जटाधरः ॥ (यथा, मनुः । ३ । १४८ । “मातामहं मातुलञ्च स्वस्रीयं श्वशुरं गुरुम् । दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यौ च भोज- येत् ॥” * ॥ वैश्यानां पतिः । यथा, भागवते । ४ । २३ । ३२ । “वैश्यः पठन् विट्पतिः स्यात् शूद्रः सत्तमता- मियात् ॥” “विशां पश्वादीनां वैश्यादीनां वा पतिः स्यात् ।” इति तट्टीका ॥)
