विड
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विड, आक्रोशे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) वेडति शत्रुं बली । इति दुर्गादासः ॥
विडम्, क्ली, (विड आक्रोशे + इगुपधेति कः ।) लवणविशेषः । विट्लुण इति भाषा ॥ यथा, -- “पाक्यं विडञ्च कृतके द्वयम् ।” इत्यमरः ॥ द्बे समुद्रतीरासन्नभवां लवणमृत्तिकां पाचयित्वा निष्पादिते लवणे । विट्लवणे । इति केचित् । कृतके कृत्रिमे । पाक्यविड्लवणयोर्भेदेऽपि कृत- कत्वात् ऐक्यमिति स्वामी ॥ पच्यते इति पाक्यम् । डु पच ञषौ पाके हसृय्वासोरितिघ्यण् चजोर्घि- तीति कः पाकेन निष्पादितमिति ष्ण्यो वा । वेडति भिनत्ति विडं विडाक्रुशि इजुङत्वात् कः । इति भरतः ॥ तत्पर्य्यायः । विड्गन्धम् २ काललवणम् ३ विड्लवणम् ४ । इति रत्न- माला ॥ द्राविडकम् ५ खण्डम् ६ कृतकम् ७ क्षारम् ८ आसुरम् ९ सुपाक्यम् १० खण्ड- लवणम् ११ धूर्त्तम् १२ कृत्रिमकम् १३ । अस्य गुणाः । उष्णत्वम् । दीपनत्वम् । रुच्यत्वम् । वाताजीर्णशूलगुल्ममेहनाशित्वश्च । इति राज- निर्घण्टः ॥ अपि च । “विडं सक्षारमूर्द्ध्वाधः कफं वातानुलोमनम् ॥ ऊर्द्ध्वं कफमधो वातं सञ्चारयेदित्यर्थः । दीपनं लधु तीक्ष्णोष्णं रूक्षं रुच्यं व्यवायि च । विबन्धानाहविष्टम्भकृदगौरवशूलनुत् ॥” इति भावप्रकाशः ॥ अन्यच्च । “विडं लवणमुत्क्लेदि वह्नेर्बलविवर्द्धनम् । मलवातामविष्टम्भशूलाटोपविबन्धनुत् ॥” इति राजवल्लभः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विड¦ आक्रोशे भ्वा॰ पर॰ सक॰ सेट्। वेडति अवेडीत्। [Page4898-b+ 38]
विड¦ न॰ विड--क। लवणभेदे अमरः।
“विडं सक्षारमूर्ध्वाधःकफवातानुलोमनम्” ऊर्ध्वं कफ-मधोवातं सञ्चारयतीत्यर्थः।
“दीपनं लथु तीक्ष्णोष्णंरूक्षं रुच्यं व्यवायि च। विबन्ध्यानाहविष्टम्भकृदगौ-रवशूलनुत्” भावप्र॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विड¦ n. (-डं)
1. Factitious salt, or salt procured by boiling soil found near the sea-shore, or any earth impregnated with saline particles. [Page655-b+ 60]
2. A particular fetid kind of salt, used as a tonic aperient, com- monly called black salt or Vit-lavan4, prepared by fusing fossile- salt with a small portion of Emblic myrobalans; the produce is muriate of soda with small quantities of muriate of lime, sulphur and oxid of iron.
3. A part, a fracture, a bit. E. विड् to divide, aff. क |
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विडम् [viḍam], A kind of artificial salt (Mar. बिडलोण); Mb. 13.91.4; विडं सक्षारमूर्ध्वाधः कफवातानुलोमनम् Bhāva P.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विड mn. a kind of salt (either factitious salt , procured by boiling earth impregnated with saline particles , or a partic. kind of fetid salt used medicinally as a tonic aperient , commonly called Vit-lavan or Bit-noben See. विड्-लवण; it is black in colour and is prepared by fusing fossil silt with a small portion of Emblic Myrobalan , the product being muriate of soda with small quantities of muriate of lime , sulphur , and oxide of iron) Sus3r.
विड m. N. of a country and its king Inscr.
विड m. a fragment , bit , portion (?) W.