विडङ्ग
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विडङ्गम्, क्ली पुं, (विड आक्रोशे + “विडादिभ्यः कित् ।” उणा० १ । १२० । इति अङ्गच् । सच कित् ।) स्वनामख्यातौषधम् । (यथा, बृहत्संहितायाम् । ५५ । ७ । “घृतोशीरतिलक्षौद्रविडङ्गक्षीरगोमयैः । आमूलस्कन्धलिप्तानां सङ्क्रामणविरोपणम् ॥”) तत्पर्य्यायः । वेल्लम् ३ अमोघा ३ चित्रतण्डुला ४ तण्डुलः ५ क्रिमिघ्नः ६ । इत्यमरः ॥ रसायनः ७ पावकः ८ भस्मकम् ९ । इति जटाधरः । वैलुः १० मोघा ११ तण्डुलुः १२ । इति शब्द- रत्नावली ॥ जन्तुघ्नम् १३ चित्रतण्डुलम् १४ क्रिमिघ्नम् १५ क्रिमिशत्रुः १६ गर्द्दभम् १७ कैवलम् १८ । इति रत्नमाला ॥ विडङ्गा १९ कृमिहा २० चित्रा २१ तण्डुला २२ तण्डुली- यका २३ वातारितण्डुला २४ जन्तुघ्नी २५ मृगगामिनी २६ कैराली २७ गह्वरा २८ कापाली २९ वरासुः ३० चित्रबीजा ३१ जन्तु- हन्त्री ३२ । अस्य गुणाः । कटुत्वम् । उष्णत्वम् । लघुत्वम् । वातकफार्त्त्यग्निमान्द्यारुचिभ्रान्ति- कृमिदोषविनाशित्वञ्च । इति राजनिर्घण्टः ॥ ईषत्तिक्तत्वम् । क्रिमिविषनाशित्वञ्च । इति राजवल्लभः ॥ “विडङ्गं कटु तीक्ष्णोष्टं रूक्षं वह्निकरं लघु । शूलाध्मानोदरश्लेष्मक्रिमिवातविबन्धनुत् ॥” इति भावप्रकाशः ॥
विडङ्गः, त्रि, (विड + अङ्गच् ।) अभिज्ञः । इति मेदिनी । गे, ४९ ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विडङ्ग पुं-नपुं।
विडङ्गम्
समानार्थक:वेल्ल,अमोघा,चित्रतण्डुला,तण्डुल,कृमिघ्न,विडङ्ग
2।4।106।2।3
समन्तदुग्धाथो वेल्लममोघा चित्रतण्डुला। तण्डुलश्च कृमिघ्नश्च विडङ्गं पुन्नपुंसकम्.।
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विडङ्ग¦ पु॰ न॰ विड--अङ्गच्।
१ स्वनामख्याते औषधभेदे अमरः।
“विडङ्गं कटु तीक्ष्णोष्णं रूक्षं वह्निकरं लघु। शूला-ध्मानोदरश्लेष्मक्रमिवातविबन्धनुत्” भावप्र॰।
२ अभिज्ञेत्रि॰ मेदि॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विडङ्ग¦ mfn. (-ङ्गः-ङ्गा-ङ्गं) Clever, able, skilful, conversant. mn. (-ङ्गः-ङ्गं) A vegetable and medicinal substance, considered of great efficacy as a vermifuge. E. विड् to break, to curse, Una4di aff. अङ्गच् |
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विडङ्ग [viḍaṅga], a. Clever, skilful. -ङ्गः, -ङ्गम् N. of a vegetable and medicinal substance (largely used as a vermifuge).
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विडङ्ग mfn. clever , able , skilful L.
विडङ्ग m. and f( आ). Embelia Ribes L.
विडङ्ग n. the fruit of the above plant (a vermifuge) L.