वितथम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वितथम्, त्रि, मिथ्या । इत्यमरः ॥ (यथा, मनुः । ८ । ९४ । “अवाक्शिरास्तमस्यन्धे किल्विषी नरकं व्रजेत् । यः प्रश्नं वितथं ब्रूयात् पृष्टः सन् धर्म्मनिश्चये ॥” निष्फलः । व्यर्थः । यथा, भागवते । ९ । २० । ३५ । “तस्यैवं वितथे वंशे तदर्थं यजतः सुतम् । मरुत्सोमेन मरुतो भरद्बाजमुपाददुः ॥” पुं, भरद्बाजपुत्त्रः । स च दौष्मन्तेर्भरतस्य पौत्त्रः । यथा, हरिवंशे । ३२ । १८ -- १९ । “ततोऽथ वितथो नाम भरद्बाजात् सुतोऽभवत् । पौत्त्रेऽथ वितथे जाते भरतस्तु दिवं ययौ ॥ वितथञ्चाभिषिच्याथ भरद्वाजो वनं ययौ ॥”)
