सामग्री पर जाएँ

वितानः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वितानः, पुं, क्ली, (वि + तन् + घञ् ।) क्रतुः । (यथा, माघे । १४ । १० । “सोमपायिनि भविष्यते मया वाञ्छितोत्तमवितानयाजिना ॥”) विस्तारः । (यथा, भागवते । ३ । ७ । ३१ । “यज्ञस्य च वितानानि योगस्य च पर्थ प्रभो । नैष्कर्म्मस्य च साङ्ख्यस्य तन्त्रं वा भगवत्- स्मृतम् ॥”) उल्लाचः । इत्यमरः ॥ चा~दोया इति भाषा । अस्य पर्य्यायश्चन्द्रातपशब्दे द्रष्टव्यः ॥ (यथा, रघुः । १७ । २८ । “वितानसहितं तत्र भेजे पैतृकमासनम् । चूडामणिभिरुद्घृष्टपादपीठं महीक्षिताम् ॥” समूहः । यथा, माघे । ११ । ४३ । “नवकनकपिशङ्गं वासराणां विधातुः ककुभि कुलिशपाणेर्भाति भासां वितानम् ॥” व्रणबन्धनविशेषः । यथा, सुश्रुते । १ । १८ । “तत्र कोशदामस्वस्तिकानुवेल्लितप्रतोलीमण्डल- स्थगिकायमकखट्वाचीनविवन्धवितानगोफणाः पञ्चाङ्गी चेति चतुर्द्दशबन्धविशेषाः ॥”)

वितानः, त्रि, (वि + तन + घञ् ।) तुच्छः । (यथा, रघुः । ९ । ५० । “गगनमश्वखुरोद्धतरेणुभि- र्नृ सविता च वितानमिवाकरोत् ॥”) मन्दः । इत्यमरः ॥ शून्यः । इति धरणिः ॥ (यथा, माघे । ३ । ५० । “बृहत्तुलैरप्यतुलैर्वितान- मालापिनद्धैरपि चावितानैः ॥”)

"https://sa.wiktionary.org/w/index.php?title=वितानः&oldid=166124" इत्यस्माद् प्रतिप्राप्तम्