सामग्री पर जाएँ

विदग्धः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विदग्धः, त्रि, (वि + दह + क्तः ।) नागरः । इति त्रिकाण्डशेषः ॥ (यथा देवीभागवते । ९ । “विदग्धाया विदग्धेन सङ्गमो गुणवान् भवेत् ॥”) निपुणः । इति त्रिकाण्डशेषः ॥ (यथा आर्य्या- सप्तशत्याम् । ५०६ । “लिप्तं न मुखं नाङ्गं न पक्षती चरणाः परा- गेण । अस्पृशतेव नलिन्या विदग्धमधुपेन मधु पीतम् ॥”) पण्डितः । इति शब्दरत्नावली ॥ (विशेषेण दग्धः । यथा, सुश्रुते । ४ । १ । “शोफयोरुपनाहन्तु कुर्य्यादामविदग्धयोः । अविदग्धः शमं याति विदग्धः पाकमेति च ॥”)

"https://sa.wiktionary.org/w/index.php?title=विदग्धः&oldid=166160" इत्यस्माद् प्रतिप्राप्तम्