सामग्री पर जाएँ

विदिक्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विदिक्, [श्] स्त्री, (दिग्भ्यां विगता ।) दिशो- र्मध्यम् । अग्निनिरृतिवाय्वीशानकोणचतुष्टयम् । तत्पर्य्यायः । अपदिशम् २ । इत्यमरः ॥ प्रदिक् ३ । इति जटाधरः ॥ विदिशम् ४ । इति शब्दरत्नावली ॥ कोणः ५ । इति राज- निर्घण्टः ॥ (यथा, भागवते । ४ । १७ । १६ । “सा दिशो विदिशो देवी रोदसी चान्तरं तयोः । धावन्ती तत्र तत्रैनं ददर्शानुद्यतायुधम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=विदिक्&oldid=166201" इत्यस्माद् प्रतिप्राप्तम्