सामग्री पर जाएँ

विदीर्णः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विदीर्णः, त्रि, (वि + दॄ + क्तः ।) कृतविदारणः । चेरा इति भाषा । यथा, -- पितर ऊचुः । “श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजै- र्दत्तानि तीर्थसमयेऽप्यपिवत्तिलाम्बु । तस्योदरान्नखविदीर्णवपाद्य आर्च्छ- त्तस्मै नमो नृहरयेऽखिलधर्म्मगोप्त्रे ॥” इति श्रीमद्भागवते ७ स्कन्धे ८ अध्यायः ॥ अपि च । “अद्बीपे क्षिपती समस्तजगती सस्तोकशोका- म्बुधौ राधा सम्भृतकाकुराकुलमसौ चक्रे तथा क्रन्दनम् । येन स्यन्दननेमिनिर्म्मितमहासीमन्तदम्भादिदं हा सर्व्वं सहयापि निर्भरमभूद्दूराद्बिदीर्णं भुवा ॥” इत्युज्ज्वलनीलमणिः ॥

"https://sa.wiktionary.org/w/index.php?title=विदीर्णः&oldid=166211" इत्यस्माद् प्रतिप्राप्तम्