सामग्री पर जाएँ

विदूरथः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विदूरथः, पुं, राजविशेषः । यथा, -- “मनोस्तु दक्षपुत्त्रस्य द्वादशस्यात्मजान् शृणु । देववानुपदेवश्च देवश्रेष्ठो विदूरथः ॥ मित्रवान् मित्रदेवश्च मित्रविन्दश्च वीर्य्यवान् । मित्रवाहः सवर्च्चाश्च दक्षपुत्त्रमनोः सुताः ॥” इति गारुडे ८७ अध्यायः ॥ (कुरुपुत्त्रः । यथा, महाभारते । १ । ९५ । ३९ -- ४० । “कुरुः खलु दाशार्हीमुपयेमे सुभाङ्गीं नाम तस्यामस्य जज्ञे विदूरथः । विदूरथस्तु माधवी- मुपयेमे संप्रियां नाम तस्यामस्य जज्ञे अनश्वा नाम ॥” * ॥ वृष्णिवंशीयानामन्यतमः । यथा, भागवते । ९ । २४ । १८ । “पृथुर्विदूरथाद्याश्च बहवो वृष्णिनन्दनाः ॥” अस्य पूत्त्रः शूरः । यथा, तत्रैव । ९ । २४ । २६ । “शूरो विदूरथादासीत् भजमानस्तु तत्सुतः । शिनिस्तस्मात् स्वयं भोजो हृदिकस्तत्सुतो मतः ॥”)

"https://sa.wiktionary.org/w/index.php?title=विदूरथः&oldid=166229" इत्यस्माद् प्रतिप्राप्तम्