विदेहः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विदेहः, पुं, जनकान्वयभूमिपः । (यथा, देवी- भागवते । १ । १६ । ५२ । “द्रष्ट्रुमिच्छाम्यहं भूपं विदेहं नृपसत्तमम् । कथं तिष्ठदि संसारे पद्मपत्रमिवाम्भसि ॥” विगतो देहो यस्या ।) कायशून्ये, त्रि । इति मेदिनी । ले, १४ ॥ (यथा, महाभारते । ३ । १०७ । २६ ॥ “छिन्नशीर्षा विदेहाश्च भिन्नत्वगस्थिसन्धयः । प्राणिनः समदृश्यन्त शतशोऽथ सहस्रशः ॥”) निमिराजस्य विदेहत्वकारणम् । यथा, -- “असमाप्ते ततो यज्ञे वशिष्ठश्चागमद्दिवः । तं दृष्ट्वा कुपितः प्राह प्रत्याख्यातोऽस्मि पार्थिव । यस्मात्तस्मात् शपेयं त्वां विदेहस्त्वं भविष्यसि ॥” इति वह्रिपुराणे सूर्य्यवंशसमाप्ताध्यायः ॥
