सामग्री पर जाएँ

विदेहकैवल्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विदेहकैवल्य¦ न॰ कर्म॰।
“न तस्य प्राणा ह्युत्क्रामन्तिइहैव समवलीयन्ते” श्रुत्युक्ते जीवन्मुक्तस्य देहपत-नान्तरं निर्वाणमोक्षे। विदेहकैवल्यनिष्पत्तिप्रकारादि शा॰ सू॰ भाष्ययोरुक्तयथा
“भोगेन त्वितरे क्षपयित्वा सम्पद्यते” सू॰। अना-{??}कार्य्ययोः पुण्यपापयोर्विद्यासामर्थ्यात् भय उक्तःपूमरे{??}र्य्ये पुणापापे{??}पभोगेन शपययित्वा[Page4901-b+ 38] ब्रह्म सम्पद्यते
“तस्य तावदेव चिरं यावन्न विमोक्ष्येअथ सम्पतस्ये” इति।
“ब्रह्मैव सन् ब्रह्माप्येति” इति चैव-मादिश्रुतिभ्यः। ननु सत्यपि सम्यगदर्शने यथा प्रागदेहपाताद् भेददर्शनं द्विचन्द्रदर्शनन्यायेनानुवृतमेवपश्चादप्यनुवर्त्तेत न, निमित्ताभावात् उपभोगशेषक्षपणंहि तत्रानुवृत्तिनिमित्तं न च तादृशमस्ति किञ्चित् कारणम्।{??}परः कर्माशयोऽभिनवमुपभोगमारपूस्यते न॰तस्य दग्धवीजत्वात्। मिथ्याज्ञानावष्टम्भं हि कर्मान्तरंदेहपाते उपभोगान्तरमारभते तच्च मिथ्याज्ञाने सम्यग्-दर्शनेन दग्धमिति साध्वेतत् आरब्धकार्य्यक्षये विदुषःकैवल्यम” भा॰। तत्रैव

४ पादे च सू॰ भाष्ययोरुक्तं यथा
“सम्पद्याविर्भवः स्वेनशब्दात्” सू॰
“एवमेवैष संप्रसादोऽ-आद्देहात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणा-भिनिष्पद्यते” श्रुतिर्विषयवाक्यं तत्र पूर्वपक्षं दर्शयित्वा सि-द्धान्तितं भाष्यकृता यथा
“केवलेनैवात्मनाविर्भवति नधर्मान्तरेणेति कुतः? स्वेन रूपेणाभिनिष्पद्यते इति स्वश-ब्दात्” भा॰।
“मुक्तः प्रतिज्ञानात्” सू॰।
“योऽत्राभिनिष्पद्यतेइत्युक्तः स पूर्वबन्धविनिर्मुक्तः शुद्धेनैवात्मनावविष्ठते” कुतः?प्रतिज्ञानात्।
“एतं त्वेव ते भूयोऽनुव्याख्यास्यामः” इतिप्रतिज्ञातम्
“अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः” इति चोर्पन्यस्य स्वेनरूपेणाभिनिष्पद्यते स उत्तमः पुरुषः” इति (श्रुतिः) भा॰।
“अविभागेन दृष्टत्वात् सू॰।
“अवि-भक्त एव परणात्मना युक्तोऽभिनिष्पद्यते कुतः? दृष्टत्वात्”
“यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति” एवं मुने-र्विजानतः आत्मा भवति गौतम!” इत्येवमादीनि मुक्त-स्वरूपनिरूपणपराणि वाक्यान्यविभागमेव दर्शयन्तिनदीसमुद्रादिनिदर्शनानि च” भा॰। विवेकचू॰ स्पष्टमुक्तंयथा
“पाषाणवृक्षतृणधान्यकटाम्बराद्या द{??} भवन्तिहि मृदेव यथा तथैव। देहेन्द्रियासुमनआदिसमस्तदृश्यम् ज्ञानाग्निदग्धमुपयाति परात्मभावम्। विलक्षणंयथा ध्वान्तं लीयते मानुतेजसि। तथैव सकर्ल दृश्यंप्रज्ञात्मनि विलीयते। षटे नष्टे तथा व्योष व्योमैव भवतिस्फुटम्। तथैवोपाधिविलये ब्रह्मैव ब्रह्मवत् स्वयम्। क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले। संयुक्त-{??}कतां याति तथात्मन्यात्मविन्मुनिः। एवं विदेह-कैवल्यं सन्मात्रत्वमखण्डितम्। ब्रह्मभावं प्रपद्यैवयतिर्नावर्त्तते पुनः। सदात्मकत्वविज्ञानदन्पाऽविद्यादि-वर्द्मण। अमुष्य प्रा{??}भूतत्वात् ब्रह्मणः कुत उ{??}वः”। [Page4902-a+ 38]
“विमुक्तश्च विमुच्यते” न तस्य प्राणाह्युत्क्रामन्ति इहैवसमबलीयन्ते” इत्याद्या श्रुतश्चात्र प्रमाणम्।

"https://sa.wiktionary.org/w/index.php?title=विदेहकैवल्य&oldid=259005" इत्यस्माद् प्रतिप्राप्तम्