विद्धः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विद्धः, त्रि, (विध्यते स्मति । व्यध + क्तः ।) छिद्रितः । इत्यमरः ॥ क्षिप्तः । सदृशः । वाधितः । इति मेदिनी । धे, १६ ॥ (यथा, मार्कण्डेये । ५० । ७० । “तरुगुल्मादिभिर्द्वारं न विद्धं यस्य वेश्मनः । मर्म्मभेदोऽथवा पुंसस्तत् श्रेयो भवनं न ते ॥”) ताडितः । इत्यजयपालः ॥ (यथा, विष्णुसंहि- तायाम् । २० । ४४ । “नाकाले म्रियते कश्चित् विद्धः शरशतरपि । कुशाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ॥”)
