विद्यारम्भ
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विद्यारम्भ¦ पु॰
६ त॰। पञ्चमवर्षे शिशोः कर्त्तव्ये विद्यायाआरम्भे तत्कालादि॰ ज्यो॰ त॰ उक्तं यथा
“संप्राप्ते पञ्चमे वर्षे अप्रसुप्ते जनार्दने। षष्ठीं प्रति-पदञ्चैव वर्ज्जयित्वा तथाष्टमीम्। रिक्तां पञ्चदशीं चैवशौरिभौमदिनं तथा। एवं सुनिश्चिते काले विद्यारम्भंतु कारयेत्। पूजयित्वा हरिं लक्ष्मीं देवीञ्चापि सर-स्वतीम्। स्वविद्यासूत्रकारांश्च स्वाञ्च विद्या विशेषतः” विष्णुध॰।
“लघुचरशिवमूलाधोमुखत्वष्टृपौष्णशशिषुच हरिबोधे शुक्रजीवार्कवारे। उदितवति च जीवेकेन्द्रकोणेषु सौम्यैरपठनदिनवर्जं पाठयेत् पञ्चमेऽव्दे” दोपिका।
“विद्यारम्भे गुरुः श्रेष्ठो मध्यमौ भृगुभा-स्करौ। मरणं शनिभौमाभ्यामविद्या। बुधसोमयोः” मदनपा॰।
“विद्यारम्भः सुरगुरुसितज्ञेष्वमीष्टार्थदायीकर्तुश्चायुश्चिरमपि करोत्यंशुमान् मध्यमोऽत्र। नीहा-रांशौ भवति जडता पञ्चता भूमिपुत्रे छायासूनावपिच मुनयः कीर्त्तयन्त्येवमाद्याः” रवेर्गुरोर्भृगोर्लग्नेतत्स्थेऽर्केऽपीन्दुवृद्धितः। गुर्वर्केन्दूडुशुद्धौ च विद्या-रम्भः प्रशस्यते”।
“प्राङमुखो गुरुरासीनो वरुणाभिमुखंशिशुम्। अध्यापयेच्च प्रथमं द्विजाशीर्भिः समन्वितम्। वृहस्पतिः। तद्विधिः कृत्यतत्त्वे दृश्यः। अविद्या बुधसो-मयोरिति धनुर्विद्याविषयम् यथोक्तं दोपिकायाम्
“अदितिसुतयमार्कस्वातिचित्राग्निपैत्रध्रुवहरिवसुमूलाश्वी-ब्दुमाम्यान्त्यभेषु। विशनिशशिबुधाहे विष्णुबोधे विपौषेसुसमयतिथियोगे चापविद्याप्रदानम्” तत्राक्षरग्रहणेविद्यारम्भे च लग्नशुद्धिरावश्यकीत्याह” पी॰ धा॰नृसिंहः
“शुभाः पापाश्च रन्ध्रस्थाः सर्वे नेष्टाः सदाग्रहाः। भ्रातृषष्ठावकर्मस्थाः पापाः सर्वे शुभावहाः। शुभाः केन्द्रत्रिकोणस्थाः धनभ्रातृगताः शुभाः। सर्वेलाभे प्रशस्ताः स्वुरक्षरग्रहणे शिशोः”। अक्षरग्रहणंविद्यापलक्षणम्” उभयत्रापि उत्तरायणस्यैव ग्राह्यता।
“उदग्गते भास्यति पञ्चमेऽवदे” वसिष्ठोक्तेः।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विद्यारम्भ/ विद्या m. ( या-र्)beginning of study Mall.
विद्यारम्भ/ विद्या m. N. of a ch. of the PSarv.
