विद्रधिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विद्रधिः, पुं, रोगविशेषः । तत्पर्य्यायः । विदरणम् २ हृद्ग्रन्थिः ३ हृद्व्रणः ४ । इति राजनिर्घण्टः ॥ तत्र विद्रधेः संप्राप्तिपूर्ब्बकं सामान्यं लक्षण- माह । “त्वग्रक्तमांसमेदांसि प्रदुष्यास्थिसमाश्रिताः । दोषाः शोथं शनैर्षोरं जनयन्त्युश्रिता भृशम् ॥ महामूलं रुजावन्तं वृत्तं वाप्यथवायतम् । स विद्रधिरिति ख्यातो विज्ञेयः षड्विधश्च सः ॥” अस्थिसमाश्रिता दोषा इति वक्ष्यमाणाद्व्रण- शोथाद्विद्रधेर्भेदार्थम् । यतो व्रणशोथे दोषा- णामस्थिसमाश्रयनियमो नास्ति । घोरं व्रण- शोथाद्दारुणम् । आयतं दीर्घम् ॥ * ॥ षड्- विधत्वं विवृणोति । “पृथग्दोषैः समस्तैश्च क्षतेनाप्यसृजा तथा । षण्णामपि हि तेषान्तु लक्षणं संप्रचक्ष्यते ॥” * ॥ तत्र वातिकस्य लक्षणमाह । “कृष्णोऽरुणो वा विषमो भृशमत्यर्थवेदनः । चित्रोत्थानप्रपाकश्च विद्रधिर्व्वातसम्भवः ॥” विषमो भृशं क्षणमल्पः क्षणं महान् । चित्रो- कृष्णाजाजी विशाला च धामार्गवफलं तथा । पीतं ह्येते निहन्त्याशु विद्रधीन् कोष्ठसम्भवान् ॥” धामार्गवफलं कोषातकीफलम् । “श्वेतवर्षाभुवो मूलं मूलं वरुणकस्य च । जलेन क्वथितं पीतमन्तर्विद्रधिहृत् परम् ॥ गायत्त्रीत्रिफलानिम्बकटुका मधुकं समम् । त्रिवृत्पटोलमूलाभ्यां चत्वारोऽंशाः पृथक् पृथक् ॥ मसूरान्निस्तुषान् दद्यात् एष क्वाथो घृताज्जयेत् । विद्रधिगुल्मवीसर्पदाहमोहज्वरापहः । तृण्मूर्च्छाच्छर्दिहृद्रोगपित्तासृक्कुष्ठकामलाः ॥” वाग्भटात् । “शिग्रुमूलं जले धौतं पिष्टं वस्त्रेण गालयेत् । तद्रसं मधुना पीत्वा हन्त्यन्तर्विद्रधिं नरः ॥ शोभाञ्जनकनिर्पू हो हिङ्गुसैन्धवसंयुतः । हन्त्यन्तर्विद्रधिं जन्तोः प्रातः प्रातर्निषेवितः ॥” निर्यूहः क्वाथः । इति विद्रध्याधिकारः । इति भावप्रकाशः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विद्रधिः [vidradhiḥ], An abscess; त्वग्रक्तमांसमेदांसि प्रदूष्यास्थिसमाश्रिताः । दोषाः शोथं शनैर्घोरं जनयन्त्युच्छ्रिता मृशम् ॥ महामूलं रुजापन्नं वृत्तं वाप्यथ वायतम् । स विद्रधिरिति ख्यातो विज्ञेयः षड्विधश्च सः ॥ Bhāva P. -Comp. -घ्नः, -नाशनः Hyperanthera Moringa (Mar. शेवगा).
