सामग्री पर जाएँ

विद्रुतः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विद्रुतः, त्रि, (वि + द्रु + क्तः ।) प्राप्तद्रवीभाव- घृतादिः । तत्पर्य्यायः । विलीनः २ द्रुतः ३ । इत्यमरः ॥ पलायितश्च ॥ (यथा, रघुः । ११ । ४४ । “विद्रुतक्रतुमृगानुसारिणं येन बाणमसृजत वृषध्वजः ॥” पीडितः । यथा, मनुः । ७ । ३ । “अराजके हि लोकेऽस्मिन्सर्व्वतो विद्रुते भयात् । रक्षार्थमस्य सर्व्वस्य राजानमसृजत् प्रभुः ॥”)

"https://sa.wiktionary.org/w/index.php?title=विद्रुतः&oldid=166296" इत्यस्माद् प्रतिप्राप्तम्