सामग्री पर जाएँ

विद्वेषण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विद्वेषणम्, क्ली, विद्वेषः । विपूर्ब्बद्बिंषधातोरनट् (ल्युट्)प्रत्ययेन निष्पन्नम् ॥ (यथा, महाभारते । ३ । १९५ । ३ । “विद्वेषणं परमं जीवलोके कुर्य्यान्नः पार्थिव याच्यमानः । तत्त्वां पृच्छामि कथयन्तु राजन् दद्याद्भवान् दयितञ्च मेऽद्य ॥”) अभिचारकर्म्मविशेषः । तस्य विहितदिनादि यथा, -- “सूर्य्योदयं समारभ्य घटिकादशकं क्रमात् । ऋतवः स्युर्व्वसन्ताद्या अहोरात्रं दिने दिने ॥ वसन्तग्रीष्मवर्षाश्च शरद्धेमन्तशैशिराः । हेमन्तः शान्तिके प्रोक्तो वसन्तो वश्यकर्म्मणि ॥ शिशिरः स्तम्भने ज्ञेयो विद्वेषे ग्रीष्म ईरितः । पौर्णमासी मन्दभानुयुक्ता विद्वेषकर्म्मणि ॥ वश्यं पूर्ब्बेऽह्नि मध्याह्ने विद्वेषोच्चाटनं तथा । शान्तिपुष्ठी दिनस्यान्ते सन्ध्याकाले च मारणम् ॥ कुर्य्याच्च स्तम्भनं कार्य्यं हर्य्यक्षवृश्चिकोदये । द्बेषोच्चाटादिकं कर्म्म कुलीरे वा तुलोदये ॥” भूतोदयनियममाह । “जलं शान्तिविधौ शस्तं वश्ये वह्निरुदीरितः । स्तम्भने पृथिवी शस्ता विद्बेषे व्योम कीर्त्ति- तम् ॥” दिङ्नियममाह । “याम्ये रक्षसि विद्वेषं शान्तिं वारुणवायवे ॥” नक्षत्रनियममाह । “विद्वेषोच्चाटनं वह्रिवायुयोगे च कारयेत् ॥ * ॥ अथ विद्वेषणं वक्ष्ये मिथो विद्वेषणं रिपोः । करणीयं महेशानि ! यदुक्तं मालिनीमते ॥ अन्योन्ययुद्धसंरम्भरुषितौ समरे युतौ । तदीयनखरोड्डीनधूलिमादाय साधकः ॥ धूलिना तेन विद्वेषस्ताडनादभिजायते ॥ * ॥ परस्परं रिपोर्व्वैरं मित्रेण सह निश्चितम् । महिषाश्वपुरीषाभ्यां गोमूत्रेण समालिखेत् ॥ यस्य नाम तयोः शीघ्र विद्वेषश्च परस्परम् । रक्तेन महिषाश्वेन श्मशानवस्त्रके लिखेत् ॥ यस्य नाम भवेत्तस्य काकपक्षेण लेखितम् । वेष्टयेत् द्बिजचाण्डालकेशैरेकतरैस्ततः ॥ गर्त्ते आमशरावन्तु पितृकाननमध्यतः । षट्कोणचक्रमध्ये तु रिपोर्नामसमन्वितम् ॥ मन्त्रराजं प्रवक्ष्यामि महाभैरवसंज्ञकम् । ओ~ नमो महाभैरवाय रुद्ररूपाय श्मशान- वासिने अमुकामुकयोर्व्विद्वेषं कुरु कुरु सुरु सुरु हु~ हु~ फट् । एतन्मन्त्रं लिखेत्तत्र विद्वेषो जायते ध्रुवम् ॥” इति षट्कर्म्मदीपिका ॥ (विशेषेण द्वेष्टीति । वि + द्विष + ल्युः । विद्वे- षके, त्रि । यथा, हरिवंशे । २८ । ३० । “नास्ति-वादार्थशास्त्रं हि धर्म्मविद्वेषणं परम् ॥” तथा च महाभारते । १३ । १२६ । २ । “ब्राह्मणानां परीवादो मम विद्वेषणं महत् । ब्राह्मणैः पूजितैर्नित्यं पूजितोऽहं न संशयः ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विद्वेषण¦ न॰ वि + द्विष--णिच्--ल्युट्। तन्त्रोक्ते अभिचारकर्मभेदे येन शत्रूणां परस्परविद्वेषो भवति तस्मिन् व्यापारे। वि + द्विष ल्युट्।

२ विद्वेषे।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विद्वेषण¦ m. (-णः) A hater. n. (-णं) Causing hatred or enmity. E. वि + द्विष्-ल्युट् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विद्वेषणः [vidvēṣaṇḥ], A hater, an enemy. -णी A woman of a resentful temper.

णम् Causing hatred or enmity; a kind of Tāntric rite.

Enmity, harted.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विद्वेषण/ वि- mfn. causing to hate , rendering hostile RV.

विद्वेषण/ वि- m. one who hates , a hater MW.

विद्वेषण/ वि- m. N. of a female demon (daughter of दुः-सह) Ma1rkP. ( v.l. for षिणी)

विद्वेषण/ वि- n. hating , disliking , having an aversion to( gen. or comp. ) MBh. Hariv.

विद्वेषण/ वि- n. the being hated or disliked , a means for making one's self hateful MBh. VarBr2S.

विद्वेषण/ वि- n. exciting hatred or enmity Gaut.

विद्वेषण/ वि- n. a magical act performed to excite hatred Cat.

"https://sa.wiktionary.org/w/index.php?title=विद्वेषण&oldid=260174" इत्यस्माद् प्रतिप्राप्तम्