विनायकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विनायकः, पुं, (विशिष्टो नायकः ।) बुद्धः । गणेशः । इत्यमरः ॥ (यथा, कथासरित्सागरे । ३० । ५५ । “अस्तीह प्रमदोद्याने तरुमण्डलमध्यगः । दृष्टप्रभावो वरदो देवदेवो विनायकः ॥”) गरुडः । विघ्नः । (यथा, हरिवंशे । १८१ । ६५ । “राक्षसाश्च पिसाचाश्च भूतानि च विना- यकाः ॥”) गुरुः । इति मेदिनी । के, ११२ ॥ * ॥ विना- यकगणो यथा, -- “गाङ्गेयो विष्णवश्चैव द्बौ विज्ञेयौ विनायकौ ॥” इति वह्निपुराणे गणभेदनामाध्यायः ॥ * ॥ विनायकस्योत्पत्तिर्यथा, -- प्रजापाल उवाच । “कथं गणपतेर्जन्म मूर्त्तिमत्त्वञ्च सत्तम ! । एतन्मे संशयं छिन्धि धृतिकष्टं व्यवस्थितम् ॥ महातपा उवाच । पूर्ब्बं देवगणाः सर्व्वे ऋषयश्च तपोधनाः । कार्य्यारम्भे यथा प्राप्ताः सिद्धिं ते च न संशयः ॥ सन्मागांवस्थिषु यथा सिध्यन्ते विघ्नतः क्रियाः । असत्कारिषु सर्व्वेषु तद्बदेवमविघ्नतः ॥ ततो देवाः सपितरश्चिन्तयामासुराजसा । असत्कार्य्येषु विघ्नार्थे सर्व्व एवाभ्यमन्त्रयन् ॥ ततस्तेषा तदा मन्त्रं कुर्व्वतां त्रिदिवौकसाम् । बभूव बुद्धिर्गमने रुद्रं प्रति महामते ॥ ते तत्र रुद्रमामन्त्र्य कैलासनिलयं गुरुम् । ऊचुः सविनयं सर्व्वे प्रणिपातपुरःसरम् ॥ देवा ऊचुः । देवदेव महादेव शूलपाणे त्रिलोचन । अस्य ध्यानम् । “मुक्ताकाञ्चननीलकुन्दघुसृणच्छायैस्त्रिनेत्रा- न्वितै- र्नागास्यैर्हरिवाहनं शशिधरं हेरम्बमर्कप्रभम् । दृप्तं दानमभीतिमोदकरदान् टङ्के शिरोऽक्षा- त्मिकां मालां मुद्गरमङ्कुशं त्रिशिखकं दोर्भिर्द्दधानं भजे ॥” अस्य पुरश्चरणं त्रिलक्षसंख्यकजपः ॥ * ॥ मन्त्रा- न्तरम् । गं क्षिप्रप्रसादनाय हृत् । तथा च निबन्धे । “संवर्त्तको नेत्रयुतः पार्श्वो वह्न्यासने स्थितः । प्रसादनाय हृन्मन्त्रः स्वबीजाद्यो दशाक्षरः ॥” अस्य ध्यानम् । “पाशाङ्कुशौ कल्पलतां विषाणं दधत् स्वशुण्डाहितबीजपूरः । रक्तस्त्रिनेत्रस्तरुणेन्दुमौलि- र्हारोज्ज्वलो हस्तिमुखोऽवतान्नः ॥” अस्य पुरश्चरणं लक्षजपः ॥ * ॥ अथ हरिद्रा- गणेशमन्त्रः । “पञ्चान्तको धरासंस्थो बिन्दुभूषितमस्तकः । एकाक्षरो महामन्त्रः सर्व्वकामफलप्रदः ॥” ध्यानन्तु । “हरिद्राभं चतुर्ब्बाहुं हारिद्रवसनं विभुम् । पाशाङ्कुशधरं देवं मोदकं दन्तमेव च ॥” अस्य पुरश्चरणं चतुर्लक्षजपः । इति तन्त्र- सारः ॥ * ॥ (पीठस्थानविशेषः । यथा, देवीभागवते । ७ । ३० । ७१ । “करवीरे महालक्ष्मीरुमादेवी विनायके । आरोग्या वैद्यनाथे तु महाकाले महेश्वरी ॥” विगतो नायको यस्येति विग्रहे अनाथे, त्रि ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विनायकः [vināyakḥ], 1 A remover (of obstacles).
N. of Gaṇeśa; विनायकं प्रकुर्वाणो रचयामास वानरम् Subhāṣ.
A Buddhist deified teacher.
N. of Garuḍa.
An obstacle, impediment.
A spiritual preceptor.
A leader, guide.
