सामग्री पर जाएँ

विनीतः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विनीतः, त्रि, (वि + नी + क्तः ।) विनयान्वितः । विनयः शास्त्रतः संस्कारः इन्द्रिययमो वा । तत्पर्य्यायः । निभृतः २ प्रश्रितः ३ । इत्यमर- भरतौ ॥ (यथा, रघुवंशे । १४ । ७५ । “तपस्विसंसर्गविनीतसत्त्वे तपोवने वीतभया वसास्मिन् ॥”) जितेन्द्रियः । (यथा, तन्त्रसारे । “शान्तो दान्तः कुलीनश्च विनीतः शुद्धवेश- वान् ॥”) अपनीतः । (यथा, महाभारते । ७ । ११० । ५५ । “विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः ॥”) हृतः । इति मेदिनीकारहेमचन्द्रौ ॥ क्षिप्तः । इत्यजयपालः ॥ कृतदण्डः । इति स्मृतिः ॥ (अनुद्धतः । यथा, मनौ । ९ । ४१ । “तत्प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना ॥”)

विनीतः, पुं, (वि + नी + क्तः ।) सुवहाश्वः । तत्पर्य्यायः । साधुवाही २ । इत्यमरः । सुष्ठु- वाहनशीलकः ३ । इति शब्दरत्नावली ॥ (यथा, महाभारते । ७ । ११० । ५६ । “तांस्तदा रूप्यवर्णाभान् विनीतान् शीध्र- गामिनः ॥”) बणिक् । इति मेदिनी । ते, १५४ ॥ दमनकवृक्षः । (अस्य पर्य्यायो यथा, -- “उक्तो दमनको दान्तो मुनिपुत्त्रस्तपोधनः । गन्धोत्कटे ब्रह्मजटो विनीतः फलपत्रकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) शिक्षितवृषभादिः । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=विनीतः&oldid=166461" इत्यस्माद् प्रतिप्राप्तम्