विन्ध्यवासिनी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विन्ध्यवासिनी, स्त्री, (विन्ध्ये वसतीति । वस् + णिनिः । ततस्त्रियां ङीप् ।) दुर्गा । यथा, -- “सहस्राक्षोऽपि तां गृह्य विन्ध्यं वेगाज्जगाम ह । तत्र गत्वा तथोवाच तिष्ठस्वात्र महावने ॥ पूज्यमाना सुरैर्नाम्ना ख्याता त्वं विन्ध्यवासिनी ॥ तत्र स्थाप्य हरिर्देवीं दत्त्वा सिंहञ्च वाहनम् । भवामरारिहन्त्रीति ह्युक्त्वा स्वर्गमवाप्नुयात् ॥” इति वामने ५१ अध्यायः ॥ * ॥ अन्यच्च देवीपुराणे ४५ अध्याये । “विन्ध्येऽवतीर्य्य देवार्थं हतो घोरो महाभटः । अद्यापि तत्र सावासा तेन सा विन्ध्यवासिनी ॥”
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विन्ध्यवासिनी/ विन्ध्य--वासिनी f. (with or without देवी)a form of दुर्गाKatha1s. Das3.
