सामग्री पर जाएँ

विपक्षः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विपक्षः, पुं, (विरुद्धः पक्षो यस्य ।) शत्रुः । इत्य- मरः ॥ (यथा हरिवंशे । ५३ । ५४ । “तत्र वंशा विभज्यन्तां विपक्षः पक्ष एव च । पुत्त्राणां हि तयो राज्ञो भविता विग्रहो महान् ॥” यथा च रघुवंशे । १७ । ७५ । “इन्दोरगतयः पद्मे सूर्य्यस्य कुमुदेऽंशवः । गुणास्तस्य विपक्षेऽपि गुणिनो लेभिरेऽन्त- रम् ॥” न्यायमते साध्याभाववत्पक्षः । यथा, भाषा- परिच्छेदे । ७३ । “यः सपक्षे विपक्षे च भवेत् साधारणस्तु सः ।” “सपक्षविपक्षवृत्तिः साधारणः । सपक्षः साध्यवान् । विपक्षः साध्याभाववान् ।” इति मुक्तावली ॥ विकल्पः पक्षः । उक्ताकरणम् । यथा, आर्य्यासप्तशत्याम् । ३५४ । “प्रतिभूः शुको विपक्षे दण्डः शृङ्गारसंकथा गुरुषु ॥” विगतः पक्षो यस्य । पक्षहीने, त्रि ॥)

"https://sa.wiktionary.org/w/index.php?title=विपक्षः&oldid=166500" इत्यस्माद् प्रतिप्राप्तम्