सामग्री पर जाएँ

विपणिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विपणिः, पुं स्त्री, (विपण्यतेऽस्मिन्निति । वि + पण + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इति इन् ।) पण्यविक्रयशाला । इति हला- युधः ॥ हट्टः । इत्यन्ये । विक्रयार्थप्रसारित- नानाद्रव्यायां बणिग्वीथ्यां वाणियाविथी इति वाजार इति च ख्यातायामिति केचित् । हट्टमण्डपः । इति केचित् । हट्टमध्यस्थपण्य- विक्रयवीथी । इति केचित् । इति भरतः ॥ तत्पर्य्यायः । पण्यवीथिका २ । इत्यमरः ॥ आपणः ३ पण्यवीथी ४ पण्यम् ५ । इति रभसः ॥ निषद्या ६ बणिक्पथम् ७ । इत्यमर- दत्तः ॥ विपणम् ८ वीथी ९ । इति कोषः ॥ “निषद्या विपणिः पण्यवीथिका त्वापणिस्तथा । पण्यविक्रयशालायां भवेदेतच्चतुष्टयम् ॥” इति शब्दरत्नावली ॥ “विपणिः पण्यवीथ्याञ्च भवेदापणपण्ययोः ।” इति मेदिनी । णे, ७८ ॥ (यथा, महाभारते । ९ । ३५ । ३० । “विपण्यापणपण्यानां नानाजनशतैर्व्वृतः ॥” बाणिज्यम् । यथा, मनौ । १० । ११६ । “विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः । धृतिर्भैक्ष्यं कुसीदञ्च दश जीवनहेतवः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विपणिः [vipaṇiḥ] णी [ṇī], णी f.

A market, market-place, stall; हा हा नश्यति मन्मथस्य विपणिः सौभाग्यपण्याकरः Mk.8.38; Śi.5.24; R.16.41.

An article or commodity for sale.

Trade, traffic; Ms.1.116. -Comp. -गत a. being on the market. -जीविका subsistence by traffic.-पथः a shop-street.

"https://sa.wiktionary.org/w/index.php?title=विपणिः&oldid=262839" इत्यस्माद् प्रतिप्राप्तम्