विपणी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विपणी, [न्] पुं, (विपणः विक्रयोऽस्यास्तीति । विपण + इनिः ।) बणिक् । इति जटाधरः ॥ (यथा, शिशुपालवधे । ५ । २४ । “पूर्णापणा विपणिनो विपणीर्व्विभेजुः ॥”)
विपणी, स्त्री, (विपणि + वा ङीष् ।) हट्टः । इति द्विरूपकोषः ॥ (यथा, कथासरित्सागरे । २० । ६५ । “ययौ भोजनमूल्यार्थी विपणीमात्तमूलकः ॥”)
