सामग्री पर जाएँ

विपाट्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विपाट्, [श्] स्त्री, विपाशानदी । इत्यमरः ॥ (यथा, ऋग्वेदे । ३ । ३३ । १ । “गावेव शुभ्रे मातरा रिहाणे विपाट्छुतुद्री पयसा जवेते ॥” “विपाट् कूलविपाटनात् विपाशनात् शतपुत्त्र- मरणोद्भूततमोवृतेर्म्मुमूर्षोर्वशिष्ठस्य पाशा अस्यां व्यपास्यन्त विमोचनाद्वा विपाट् । शुतुद्री शुक्षिप्रं तुन्ना तुन्नेव द्रवति गच्छतीति शुतुद्री एत- न्नागके नद्यौ ॥ प्रजवेते समुद्रं प्रति शीघ्रं गच्छतः । *** विपाट् पटगतौ । पशवाधन- स्पर्शनयोरितिवा ण्यन्तावेतौ विपूर्ब्बौ शकारस्य ब्रश्चादिना षत्वम् ॥” इति तद्भाष्ये सायणः ॥)

"https://sa.wiktionary.org/w/index.php?title=विपाट्&oldid=166536" इत्यस्माद् प्रतिप्राप्तम्