विप्रः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विप्रः, पुं, (वप + “ऋज्रेन्द्राग्रवज्रेति ।” उणा० २ । २८ । निपातनात् रप्रत्ययेन साधुः ।) ब्राह्मणः । इत्य- मरः । विशेषेण प्राति पूरयति षट् कर्म्माणि विप्रः । प्रा ल पूर्त्तौ इत्यस्मात् डप्रत्ययः । किंवा । उप्यते धर्म्मबीजमत्र इति वपेर्नाम्नीति रे निपातनादत इत्वम् । इति भरतः ॥ तस्य लक्षणं यथा, -- “जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते । विद्यया याति विप्रत्वं त्रिभिः श्रोत्रियलक्षणम् ॥” इति प्रायश्चित्तविवेकः ॥ (यथाच मनौ । १ । ९४ । “उत्षत्तिरेव विप्रस्य मूर्त्तिर्धर्म्मस्य शाश्वती । स हि धर्म्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥” अस्य पादोदकमाहात्म्ये यथा, ब्रह्मवैवर्त्ते । १ । ११ । २६ -- ३३ । “पृथिव्यां यानि तीर्थानि तानि तीर्थानि सागरे । सागरे यानि तीर्थानि विप्रपादेषु तानि च ॥ विप्रपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी । तावत् पुष्करपात्रेषु पिबन्ति पितरो जलम् । विप्रपादोदकं पुण्यं भक्तियुक्तश्च यः पिबेत् ॥ स स्नातः सर्व्वतीर्थेषु सर्व्वयज्ञेषु दीक्षितः । महारोगी यदि पिबेत् विप्रपादोदकं द्विज । मुच्यते सर्व्वरोगेभ्यो मासमेकन्तु भक्तितः ॥ अविद्यो वा सविद्यो वा सन्ध्यापूतो हि यो द्विजः । स एव विष्णुसदृशो मा हरी विमुखो यदि ॥ घ्नन्तं विप्र शपन्तं वा न हन्यान्नच तं शपेत् । गोभ्यः शतगुणं पूज्यो हरिभक्तश्च ब्राह्मणः ॥ पादोदकञ्च नैवेद्यं भुङ्क्ते विप्रस्य यो द्विज । नित्यं नैवेद्यभोजी यो राजसूयफलं लभेत् ॥ एकादश्यां न भुङ्क्ते यो नित्यं विष्णुं समर्च्चयेत् । नस्य पादोदकं प्राप्य स्थलं तीर्थं भवेद्ध्रुवम् ॥”) अश्वत्थः । इति राजनिर्घण्टः ॥ (त्रि, मेधावी । यथा, ऋग्वेदे । १० । ११२ । । ९ । “निषुसीद गणपते गणेषु त्वा माहुर्व्विप्रतमं कवीनाम् ॥”) “विप्रतमं अतिशयेन मेधाविनम् ।” इति तद्भाष्ये सायणः ॥ स्तवकर्त्ता । यथा, ऋग्वेदे । १० । ४० । १४ । “विप्रस्य वा यजमानस्य वा गृहम् ॥” “विप्रस्य मेधाविनः स्तोतुर्व्वा ।” इति तद्भाष्ये सायणः ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विप्रः [viprḥ], [वप्-रन् पृषो˚ अत इत्वम् Uṇ.2.28]
A Brāhmaṇa; see the quotations under ब्राह्मण.
A sage, wise man; त्वं मुखं पद्मजो विप्रः Mb.1.23.17.
The Aśvattha tree.
(In prosody) A foot of four short syllables.
A singer of hymns, praiser.
The month भाद्रपद.
Ficus Religiosa (Mar. पिंपळ).
Acacia Sirissa (Mar. शिरस). -Comp. -ऋषिः = ब्रह्मर्षिः q. v. -काष्ठम् the cotton-plant. -कुण़्डः an adulterous offspring of Brāhmaṇa parents. -ग्रहः = ब्रह्मराक्षस q. v.; Bhag.6.8.25.-प्रिय a. dear to Brāhmaṇas; विप्रप्रियं धार्मिकम् Rāmarakṣā 26. (-यः) the Palāśa tree. (-यम्) thick sour milk. -समागमः a concourse or synod of Brāhmaṇas.-स्वम् the property of a Brāhmaṇa.
