विप्रलब्धा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विप्रलब्धा, स्त्री, (विशेषेण प्रलब्धा प्रतारिता ।) स्वीयादिनायिकाभेदः । तस्या लक्षणं यथा, -- सङ्केतनिकेतने प्रियमनवलोक्य समाकुलहृदया विप्रलब्धा । अस्याश्चेष्टा निर्वेदनिश्वाससखी- जबोपालम्भभयमूर्च्छाचिन्ताश्रुपातादयः ॥ * ॥ मुग्धा पिप्रलब्धा यथा, -- “आलीभिः शपथैरनेककपटैः कुञ्जोदरं नीतया शून्यं तच्च निरीक्ष्य विक्षुभितया न प्रस्थितं न स्थितम् । न्यस्ताः किन्तु नवोढनीरजदृशा कुञ्जोपकण्ठे रुषा भ्राम्यद्भृङ्गकदम्बडम्बरचमत्कारस्पृशो दृष्टयः ॥” * ॥ मध्या विप्रलब्धा यथा, -- “सङ्केतकेलिगृहमेत्य निरीक्ष्य शून्य- मेणीदृशो निभृतनिश्वसिताधरायाः । अर्द्धाक्षरं वचनमर्द्धविकाशि नेत्रं ताम्बूलमर्द्धकवलीकृतमेव तस्थौ ॥” * ॥ प्रगल्भा विप्रलब्धा यथा, -- “शून्यं कुञ्जगृहं निरीक्ष्य कुटिलं विज्ञात- चेतोभवं दूती नापि निवेदिता सहचरी पृष्टापि नो वा तया । शम्भो शङ्कर चन्द्रशेखर हरश्रीकण्ठ शूलिन् शिव त्रायस्वेति परन्तु पङ्कजदृशा भर्गस्य चक्रे स्तुतिः ॥” * ॥ परकीया विप्रलब्धा यथा, -- “दत्त्वा धैर्य्यभुजङ्गमूर्द्ध्नि चरणावुल्लङ्घ्य लज्जा- नदी- मङ्गीकृत्य घनान्धकारपटलं तन्व्या न दृष्टः प्रियः । सन्तापाकुलया तया च परितः पाथोधरे गर्ज्जति क्रोधाक्रान्तकृतान्तमत्तमहिषभ्रान्त्या दृशौ योजिते ॥” सामान्या विप्रलब्धा यथा, -- “कपटवचनभाजा केनचिद्बारयोषा सकलरसिकगोष्ठीवञ्चिका वञ्चितासौ । इति तरलितरिङ्गद्भृङ्गविक्षिप्तचक्षु- र्हसति विकचकुन्दच्छद्मना केलिकुञ्जः ॥” इति रसमञ्जरी ॥
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विप्रलब्धा/ वि-प्रलब्धा f. a female disappointed by her lover's breaking his appointment (one of the incidental characters in a drama) W.
