सामग्री पर जाएँ

विप्रलापः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विप्रलापः, पुं, (वि + प्र + लप + घञ् ।) विरो- धोक्तिः । इत्यमरः ॥ परवचनविरोधिवचनं विप्रलापः । अन्योन्यविवदनमिति यावत् । यथा एको ब्रूते आगता कल्याणीति अन्यो ब्रूते नहीति । तथाभ्युदाजहार सर्व्वानन्दः । “एकः स्रवन्मधुसरोजमवैति वक्त्र- मन्यः सुधाकिरणबिम्बमदो मृगाक्ष्याः । यूनोर्म्मुहुर्व्विवदतोर्व्वदने बभूवुः सिद्धान्तवन्मधुशराजिगतागतानि ॥” विरुद्धः प्रलापो विप्रलापः घञ् । विरोधे उक्तिर्वचनं विरोधोक्तिः । इति भरतः ॥ (यथा, महाभारते । ६ । ८२ । २५ । “स धर्म्मराजस्य वचो निशम्य रूक्षाक्षरं विप्रलापापविद्धम् ॥”) अनर्थकवाक्यम् । इति हेमचन्द्रः ॥ (यथा, महाभारते । ३ । ५ । २१ । “सत्यं श्रेयः पाण्डव विप्रलापं तुल्यञ्चान्नं सह भोज्यं सहायैः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विप्रलापः [vipralāpḥ], 1 Idle or unmeaning talk, prattle, gibberish, nonsense.

Mutual contradiction, contradictory statement; P.I.3.5.

A dispute, wrangling.

Violation of one's promise, breaking one's word.

"https://sa.wiktionary.org/w/index.php?title=विप्रलापः&oldid=264197" इत्यस्माद् प्रतिप्राप्तम्