सामग्री पर जाएँ

विप्लवः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विप्लवः, पुं, (वि + प्लु + अप् ।) परचक्रादिभयम् । इति भरतः ॥ राष्ट्राद्युपद्रवः । इति सार- सुन्दरी ॥ तत्पर्य्यायः । डिम्बः २ डमरः ३ । इत्यमरः ॥ (यथा, राजतरङ्गिण्याम् । ८ । १०४१ । “सर्व्वां मडवराज्योर्व्वीं वीरः शमितविप्ल- वाम् ॥”) अस्त्रकलहः । इति स्वामी ॥ (क्लेशः । उप- द्रवः । यथा, भागवते । ४ । २६ । ९ । “विप्लवोऽभूद्दःखितानां दुःसहः करुणात्मनाम् ॥ विनाशः । यथा, कथासरित्सागरे । १३ । ८२ । “संमन्त्र्य कौतुकात् पापास्तद्भार्य्याशीलविप्लवम् । चिकीर्षवो ययुः शीघ्रं ताम्रलिप्तीमलक्षिताः ॥” विप्लवते इति अच् । जलोपर्य्यवस्थितः । यथा, महाभारते । ९ । ३ । ५ । “बणिजो नावि भग्नायामगाधे विप्लवा इव ॥”)

"https://sa.wiktionary.org/w/index.php?title=विप्लवः&oldid=166601" इत्यस्माद् प्रतिप्राप्तम्