सामग्री पर जाएँ

विबोधनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विबोधनम्, क्ली, (वि + बुध + ल्युट् ।) प्रबोधनम् । यथा, -- “तुष्टाव योगनिद्रान्तामेकाग्रहृदयस्थितः । विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम् ॥” इति देवीमाहात्म्यम् ॥ (जागरणम् । यथा, महाभारते । १ । १०० । ८ । “वीतशोकभयाबाधाः सुखस्वप्नविबोधनाः ॥” प्राप्तिबोधके, त्रि । यथा, ऋग्वेदे । ३८ । २२ । “अदाद्रायो विबोधनम् ।” “रायो धनस्य विबोधनं विशेषेण बोधकं बहु- धनप्राप्तिहेतुमित्यर्थः ।” इति तद्भाष्ये सायणः ॥

"https://sa.wiktionary.org/w/index.php?title=विबोधनम्&oldid=166621" इत्यस्माद् प्रतिप्राप्तम्