सामग्री पर जाएँ

विभावसुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विभावसुः, पुं, (विभा प्रभा एव वसु समृद्धिर्यस्य ।) सूर्य्यः । (यथा, महाभारते । १ । ८६ । ७ । “वर्द्धनः कुरुवंशस्य विभावसुसमद्युतिः ॥”) अर्कवृक्षः । अग्निः । (यथा, महाभारते । ३ । ६८ । ७ । “निबद्धां धूमजालेन प्रभामिव विभावसोः ॥”) चित्रकवृक्षः । इत्यमरः ॥ चन्द्रः ॥ हारभेदः । इति हेमचन्द्रः ॥ (वसुपुत्त्रविशेषः । यथा, भागवते । ६ । ६ । १०, १६ । “वसवोऽष्टौ वसोः पुत्त्रास्तेषां नामानि मे शृणु । द्रोणः प्राणो ध्रुवोऽर्कोऽग्निर्द्दोषो वास्तुर्व्विभा- वसुः । विभावसोरसूतोषा व्युष्टं रोचिषमातपम् ॥” मुरासुरपुत्त्रः । यथा, तत्रैव । १० । ५९ । १२ । “ताम्रोऽन्तरिक्षः श्रवणो विभावसुः वसुर्नभस्वानरुणश्च सप्तमः ॥” दनुपुत्त्रोऽसुरविशेषः । यथा, तत्रैव । ६ । ६ । ३० । “त्रिमूर्द्धा शम्बरोऽरिष्टो हयग्रीवो विभावसुः ॥”)

"https://sa.wiktionary.org/w/index.php?title=विभावसुः&oldid=166651" इत्यस्माद् प्रतिप्राप्तम्