सामग्री पर जाएँ

विभीतकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विभीतकः, त्रि, वृक्षविशेषः । वहेडा इति भाषा । तत्पर्य्यायः । अक्षः २ तुषः ३ कर्षफलः ४ भूत- वासः ५ कलिद्रुमः ६ । इत्यमरः ॥ कल्पवृक्षः ७ संवर्त्तः ८ । इति रत्नमाला ॥ तैलफलः ९ भूतावासः १० संवर्त्तकः ११ वासन्तः १२ कलिवृक्षः १३ वहेडुकः १४ हार्य्यः १५ विषघ्नः १६ अनिलघ्नः १७ कासघ्नः १८ । (यथा, महा- भारते । ३ । ६४ । ५ । “पियालतालखर्ज्जूरहरीतकविभीतकैः ॥”) अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । कषा- यत्वम् । उष्णत्वम् । कफापहत्वम् । चक्षुष्यत्वम् । पलितघ्नत्वम् । विपाके मधुरत्वञ्च ॥ तन्मज्ज- गुणाः । तृष्णाच्छर्द्दीकफवातहरत्वम् । लघु- त्वम् । मधुरत्वम् । मदकारित्वञ्च ॥ तत्तैल- गुणाः । स्वादुत्वम् । हिमत्वम् । केश्यत्वम् । गुरुत्वम् । पित्तानिलार्त्तिनाशित्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अपि च । अथ विभीतक- नामानि गुणाश्च । “विभीतकस्त्रिलिङ्गः स्यादक्षः कर्षफलस्तु यः । कलिद्रुमो भूतवासस्तथा कलियुगालयः ॥ विभीतकं स्वादुपाकं कषायं कफपित्तनुत् । उष्णवीर्य्यं हिमस्पर्शं भेदनं काशनाशनम् । रूक्षं नेत्रहितं केश्यं कृमिवैस्वर्य्यनाशनम् ॥ विभीतमज्जा तृट्छर्द्दिकफवातहरो लघुः । कषायो मदकृच्चाथ धात्रीमज्जापि तद्गुणाः ॥” इति भावप्रकाशः ॥ * ॥ अन्यञ्च । “विभीतंभेदि तीक्ष्णोष्णं वैस्वर्य्यं क्रिमिनाशनम् । चक्षुष्यं स्वादुपाकञ्च कषायं कफपित्तनुत् ॥” इति राजवल्लभः ॥ * ॥ अस्य कलिद्रुमत्वकारणं यथा, -- पुलस्त्य उवाच । “ततो गतेषु देवेषु ब्रह्मलोकं प्रति द्विज । त्रैलोक्यं पालयामास बलिर्धर्म्मान्वितः सदा ॥ कलिस्तदा धर्म्मयुतं जगद्दृष्ट्वा कृते यथा । ब्रह्माणं शरणं भेजे स्वभावस्य निषेधनात् ॥ प्रणिपत्य तमाहाथ तिष्यो ब्रह्माणमीश्वरम् । मम स्वभावो बलिना नाशितो देवसत्तम ॥ तं प्राह भगवान् योगी स्वभावो जगतोऽपि हि । न केवलं हि भवतो हृतस्तेन बलीयसा ॥ पश्याद्य तिष्य देवेन्द्रं वरुणञ्च समागतम् । भास्वरोऽपि हि दीनत्वं प्रयातो हि बलाद्वलेः ॥ इत्येवमुक्तो देवेन ब्रह्मणा कलिरव्ययः । दीनान् दृष्ट्वा च शक्रादीन् विभीतकवनं गतः ॥” इति वामने १७ अध्यायः ॥ (अन्यच्च । यथा, महाभारते ३ । ७२ अध्याये । “एवमुक्त्वा ददौ विद्यामृतुपर्णो नलाय वै । तस्याक्षहृदयाज्ञस्य शरीरान्निःसृतः कलिः ॥” “तं शप्तुमैच्छत् कुपितो निषधाधिपतिर्नलः । तमुवाच कलिर्भीतो वेपनानः कृताञ्जलिः ॥ कोपं संयच्छ नृपते कीर्त्तिं दास्यामि ते पराम् ॥” “एवमुक्तो नलो राजा नियच्छत् कोपमात्मनः । ततो भीतः कलिः क्षिप्रं प्रविवेश विभी- तकम् ॥” “विभीतकश्चाप्रशस्तः संवृत्तः कलिसंश्रयात् ॥”)

"https://sa.wiktionary.org/w/index.php?title=विभीतकः&oldid=166658" इत्यस्माद् प्रतिप्राप्तम्