विभीषणः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विभीषणः, पुं, (विभीषयतीति । वि + भीषि + “नन्दिग्रहिपचीति ।” ३ । १ । १३४ । इति ल्युः ।) रावणभ्राता । इति रामायणम् ॥ (यथा, भागवते । ४ । १ । ३४ । “रावणः कुम्भकर्णश्च तथाप्यस्यां विभीषणः । पुलहस्य गतिर्भार्य्या त्रीनसूत सती सुतान् ॥”) नलतृणम् । इति राजनिर्घण्टः ॥ भयानके त्रि ॥ (यथा, ऋग्वेदे । ५ । ३४ । ६ । “इन्द्रो विश्वस्य दमिता विभीषणः ॥” “विभीषणः भयजनकः ।” इति तद्भाष्ये सायणः ॥)
