विभूतिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विभूतिः, स्त्री, (वि + भू + क्तिन् ।) अणिमादि- कमष्टधा । तत्पर्य्यायः । भूतिः २ ऐश्वर्य्यम् ३ । इत्यमरः ॥ (यथा, ऋग्वेदे । १ । ८ । ९ । “एवाहिते विभूतय इन्द्रमावते ॥” “विभूतयः ऐश्वर्य्यविशेषाः ।” इति तद्भाष्ये सायणः ॥) शिवधृतभस्म । अस्य शिवस्य अणिमाद्यष्टप्रकारं वैभवं विभूत्यादिपदत्रयं वाच्यं केचित्तु विभूतिर्भूतिरिति द्वयं शम्भुधृतभस्मनि अणिमाद्यष्टके तु ऐश्वर्य्यमित्याहुः । विभवत्यनया विभूतिः क्तिः भवतेः क्तिः भूतिः विग्रहणमन्यो- पसर्गनिरासार्थं ईश्वरगुणैश्वर्य्यं भावे ष्ण्यः अणिमादि लघिमादि । तथा च । “अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा । ईशित्वञ्च वशित्वञ्च तथा कामावशायिता ॥” इति ॥ अणुत्वमणिमा येन सूक्ष्मो भूत्वा विचरति । लघुत्वं लघिमा येन वायुरिव लघुतरो भवति । प्राप्तिरभीप्सितप्रापणं प्राकाम्यमिच्छानभिघातः । महिमा महत्त्वं येन चतुर्द्दशभुवनान्यस्योदरे वर्त्तन्ते । ईशित्वं प्रभुता येन स्थावरजङ्गमादि- भूतान्यादेशकारीणि भवन्ति । वशित्वं स्वातन्त्र्यं येन स्वतन्त्रश्चरति । कामेन इच्छया अवशा- यितुं स्थातुं शीलमस्य कामावशायी शीङो ग्रहादित्वाण्णिन् तस्य भावः कामावशायिता । सर्व्वानन्दस्तु अनेकार्थत्वाद्धातूनां स्मृतिरिह तिष्ठत्यर्थः । अवशायी दन्तमध्य इत्याह । इति भरतः ॥ * ॥ अपि च । श्रीभगवानुवाच । “परात्परतरं तत्त्वं परं ब्रह्मैकमव्ययम् । नित्यानन्दं स्वयं ज्योतिरद्वयं तमसः परम् । ऐश्वर्य्यं तस्य यन्नित्यं विभूतिरिति गीयते ॥” इति कौर्म्मे १ अध्यायः ॥ (लक्ष्मीः । यथा, ऋग्वेदे । १ । ३० । ५ । “विभूतिरस्तु सूनृता ।” “विभूतिर्लक्ष्मीः ।” इति तद्भाष्ये सायणः ॥ विभवहेतुः । यथा, तत्रैव । ६ । २१ । १ । “रयिर्व्विभूतिरीयते वचस्या ॥” “विभूतिर्ज्जगतो विभवहेतुः ॥” इति तद्भाष्ये सायणः ॥ विविधसृष्टिः । यथा, भागवते । ४ । २४ । ४३ । “शक्तित्रयसमेताय मीढुषेऽहंकृतात्मने । चेत आकूतिरूपाय नमो वाचोविभूतये ॥” सम्पत् । यथा, रघुवंशे । ८ । ३६ । “अभिभूय विभूतिमार्त्तवीं मधुगन्धातिशयेन वीरुधाम् ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विभूतिः [vibhūtiḥ], f. Might, power, greatness; सा विभूतिरनुभाव- संपदां भूयसी तव Śi.14.5; Ku.2.61.
Prosperity, welfare; अघोपघातं मघवा विभूत्यै भवोद्भवाराधनमादिदेश Ki. 11.8.
Dignity, exalted rank.
Riches, plenty, magnificence, splendour; ममैष कामो भूतानां यद् भूयासुर्वि- भूतयः Bhāg.6.4.44; अहो राजाधिराजमन्त्रिणो विभूतिः Mu.3; R.8.36.
Wealth, riches; (लोकान्) त्रीनत्यरोच उपलभ्य ततो विभूतिम् Bhāg.1.16.34; विभूतयस्तदीयानां पर्यस्ता यशसामिव R.4.19;6.76;17.43.
Superhuman power (which consists of eight faculties, अणिमन्, लघिमन्, प्राप्ति, प्राकाम्य, महिमन्, ईशिता, वशिता and कामावसायिता); Ku.2.11.
Ashes of cow-dung.
N. of Lakṣmī; हित्वेतरान् प्रार्थयतो विभूतिर्यस्याङ्घ्रिरेणुं जुषते$नभीप्सोः Bhāg.1.18.2.
Expansion (विस्तार); एतां विभूतिं योग च मम यो वेत्ति तत्त्वतः Bg.1.7.
Disposition; क्षेत्रज्ञ एता मनसो विभूतीर्जीवस्य मायारचितस्य नित्याः Bhāg.5.11.12.
