सामग्री पर जाएँ

विभ्रमः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विभ्रमः, पुं, (वि + भ्रम + घञ् ।) हावभेदः । स तु स्त्रीणां शृङ्गारभावजक्रियाविशेषः । इत्य- मरः ॥ (यथा, मेघदूते । २९ । “स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥”) मदरागहर्षजनितविपर्य्यासो विभ्रमः । यथा अन्यनिमित्तमानसादुत्थायान्यत्र गमनं प्रिया- रब्धकथामाक्षिप्य सख्या सहालपनमुच्चैर्हसित- क्रोधौ पुष्पादीनां याच्ञा सहसैव तत्परि- त्यागः । वस्त्राभरणमाल्यानामकारणतः खण्डनं माननञ्च । यदुक्तम् । “क्रोधः स्मितञ्च कुसुमाभरणादियाच्ञा तद्वर्ज्जनञ्च सहसैव विमण्डनञ्च । आक्षिप्य कान्तवचनं लपनं सखीभि- र्निष्कारणोत्थितगतं वद विभ्रमं तत् ॥” इति । “चित्तवृत्त्यनवस्थानं शृङ्गाराद्बिभ्रमो भवेत् ॥” इत्यन्यत्र च ॥ तथान्यत्र । “विभ्रमस्त्ररया काले भूषास्थानविपर्य्ययः ।” यथा, -- “श्रुत्वायातं बहिः कान्तमसमापितभूषया । भालेऽञ्जनं दृशोर्लाक्षा कपोले तिलकः कृतः ॥” इति । योषितां यौवनजो विकारो विभ्रमः । इत्येके । विभ्रान्तिर्विभ्रमः घञ् । इति भरतः ॥ अपि च । “वल्लभप्राप्तिवेलायां मदनावेशसंभ्रमात् । विभ्रमो हारमाल्यादिभूषास्थानविपर्य्ययः ॥” इत्युज्ज्वलनीलमणिः ॥ * ॥ भ्रान्तिः । इति मेदिनी । मे, ५२ ॥ (यथा, भागवते । ४ । २१ । १२ । “तमत्रिर्भगवानैक्षत् त्वरमाणं विहायसा । आमुक्तमिव पाषण्डं योऽधर्म्मे धर्म्मविभ्रमः ॥”) शोभा । (यथा, राजतरङ्गिण्याम् । ३ । ३६७ । “ललाटे शूलमुद्राङ्के जराशुक्लाः शिरोरुहाः । तस्य शम्भुभ्रमासङ्गिगङ्गाम्भोविभ्रमं दधुः ॥” यथा च अमरुशतके । १ । “ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठे प्रेङ्खन्नखांशुचयसंवलितोऽम्बिकायाः । त्वां पातुमञ्जरितपल्लवकर्णपूर- लोभभ्रमद्भ्रमरविभ्रमभृत्कटाक्षः ॥”) संशयः । इति हेमचन्द्रः ॥ (यथा, कथा- सरित्सागरे । १९ । ६५ । “पूरयन् बहुनादाभिर्व्वाहिनीभिर्भुवस्तलम् । कुर्व्वन्नकाण्डनिर्म्मेघवर्षासमयविभ्रमम् ॥”) भ्रमणम् । इति शब्दरत्नावली ॥ (विकार- विशेषः । यथा, -- “तीव्रार्त्तिरपि नाजीर्णी पिबेच्छूलघ्नमौषधम् । आमसन्नोऽनलो नालं पक्तुं दोषौषधाशनम् ॥ निहन्यादपि चैतेषां विभ्रमः सहसातुरम् । जीर्णाशने तु भैषज्यं युञ्ज्यात् स्तब्धगुरूदरे ॥” इति वाभटे सूत्रस्थानेऽष्टमेऽध्याये ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विभ्रमः [vibhramḥ], 1 Roaming or wandering about.

Whirling or going round, rolling about; निवृत्तसर्वेन्द्रियवृत्तिविभ्रमः Bhāg.1.9.31.

Error, mistake, blunder.

Hury, confusion, flurry, perturbation; especially, the flurry, of mind caused by love; चित्तवृत्त्यनवस्थानं शृङ्गाराद्विभ्रमो भवेत्.

(Hence) Putting on ornaments &c. in wrong places through flurry; विभ्रमस्त्वरया$काले भूषास्थानविपर्ययः; यश्चाप्सरोविभ्रममण्डनानां संपादयित्रीं शिखरैर्बिभर्ति Ku.1.4; (see Malli. thereon).

Any amorous or sportive action, amorous paly or movement; Māl.1.26; नवप्रणयविभ्रमा- कुलितमालतीदृष्टयः 9.38.

Beauty, grace, charm; तदा तद- ङ्गस्य बिभर्ति विभ्रमम् N.15.25; U.1.2,34;6.4; Śi.6.46; 7.15;16.64; Māl.7; क्रोधं स्मितं च कुसुमाभरणादि याच्ञा तद्वर्जनं च सहसैव विमण्डनं च । आक्षिप्य कान्तवचनं लपनं सखीभि- र्निष्कारणोत्थितगतं वद विभ्रमं तत् ॥

Doubt, apprehension; आमुक्तमिव पाखण्डं यो$धर्मे धर्मविभ्रमः Bhāg.4.19.12.

Caprice, whim.

Disturbance, perturbation; ऊर्मिव्यतिकरविभ्रमप्रचण्डः Mv.6.26.

Pride; दीर्घमायुः स मे प्रादात्ततो मां विभ्रमो$स्पृशत् Rām.3.71.9.

"https://sa.wiktionary.org/w/index.php?title=विभ्रमः&oldid=265510" इत्यस्माद् प्रतिप्राप्तम्