सामग्री पर जाएँ

विमलदानम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विमलदानम्, क्ली, (विमलं विशुद्धं दानम् ।) नित्य- नैमित्तिककाम्यदानम् । ईश्वरप्रीणनार्थदानञ्च । यथा, -- “नित्यं नैमित्तिकं काम्यं विमलं दानमीरितम् । अहन्यहनि यत्किञ्चिद्दीयतेऽनुपकारिणे । अनुद्दिश्य फलं तत् स्यात् ब्राह्मणाय तु नित्य- कम् ॥ यत्तु पापापशान्त्यै च दीयते विदुषां करे । नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुष्ठितम् ॥ अपत्यविजयैश्वर्य्यस्वर्गार्थं यत् प्रदीयते । दानं तत् काम्यमाख्यातमृषिभिर्द्धर्म्मचिन्तकः ॥ चेतसा सत्त्वयुक्तेन दानं तद्बिमलं स्मृतम् ॥” इति गारुडे ५१ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=विमलदानम्&oldid=166706" इत्यस्माद् प्रतिप्राप्तम्