विमलम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विमलम्, क्ली, (विगतो मलो यस्मात् ।) तारहेम- द्विधाकृतम् । तत्तूपरसविशेषः । तत्पर्य्यायः । निर्म्मलम् २ स्वच्छम् ३ अमलम् ४ स्वच्छधातु- कम् ५ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । त्वग्दोषव्रणनाशित्वम् । रसवीर्य्यादौ तुल्य- त्वम् । वेधे भिन्नवीर्य्यकत्वञ्च । इति राज- निर्घण्टः ॥ (तथास्य शोधनमारणविधिः । “मूत्रारनालतैलेषु गोदुग्धे कदली रसे । कौलत्थे कोद्रवक्वाथे माक्षिकं विमलन्तथा ॥ मुहुः शूरणकन्दस्थं स्वेदयेद्वरवर्णिनि ! । क्षाराम्ललवणैश्चैव तैलसर्पिःसमन्वितम् ॥ पुटत्रयं प्रदातव्यं ततस्तु शोधितं भवेत् । जम्बीरस्य रसे स्विन्नो मेषशृङ्गीरसैस्तथा । रम्भातोयेन वा पाच्यं घस्रं विमलशुद्धये ॥” इति विमलशुद्धिः ॥ इति वैद्यकरसेन्द्रसार- संग्रहे जारणमारणाधिकारे ॥)
विमलम्, त्रि, (विगतो मलो यस्मात् ।) निर्म्मलम् । तत्पर्य्यायः । वीध्रम् २ । इत्यमरः ॥ प्रयतम् ३ । इति शब्दरत्नावली ॥ (यथा, रामायणे । २ । ४८ । १४ । “प्रस्रविष्यन्ति तोयानि विमलानि महीधराः । विदर्शयन्तो विविधान् भूयश्चित्रांश्च निर्झ- रान् ॥”) चारुः । इति च शब्दरत्नावली ॥ (यथा, माघे । ९ । १३ । “रुचिधाम्नि भत्तरि भृशं विमलाः परलोकमभ्युपगते विविशुः ॥”)
