विमला
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विमला, स्त्री, (विमल + टाप् ।) सप्तला । इत्यमरः ॥ चामरकषा इति भाषा ॥ (अस्याः पर्य्यायो यथा, -- “शातला सप्तला सारा विमला विदुला च सा । तथा निगदिता भूरिफेना चर्म्मकषेत्यपि ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) भूमिभेदः । इति मेदिनी । ले, १३१ ॥ देवी- भेदः । यथा, -- “यूथाख्यविमला कार्य्या शुद्धहारेन्दुवर्च्चसा । मुक्ताक्षसूत्रधारी च कमण्डलुकरा वरा ॥ नावासनसमारूढा श्वेतमाल्याम्बरप्रिया । दधिक्षीरोदनाहारा कर्पूरमदचर्च्चिता । सितपङ्कजहोमेन राष्ट्रायुर्नृपवर्द्धिनी ॥” इति देवीपुराणे संवत्सरदेवताद्वितीयविंश- तिकाविधिः ॥ * ॥ अन्यच्च । “पूजयेत् कर्णिकामध्ये वासुदेवन्तु नायकम् । विमला नायिका तस्य वासुदेवस्य कीर्त्तिता ॥” इति कालिकापुराणे ८२ अध्यायः ॥ * ॥ अपरञ्च । “उत्कले नाभिदेशञ्च विरजाक्षेत्र उच्यते । विमला सा महादेवी जगन्नाथस्तु भैरवः ॥” इति तन्त्रचूडामणौ ५१ पीठनिर्णयः ॥ (यथा च देवीभागवते । ७ । ३० । ६४ । “गयायां मङ्गला प्रोक्ता विमला पुरुषोत्तमे ॥”)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विमला स्त्री।
सप्तला
समानार्थक:सप्तला,विमला,सातला,भूरिफेना,चर्मकषा
2।4।143।2।1
किराततिक्तो भूनिम्बोऽनार्यतिक्तोऽथ सप्तला। विमला सातला भूरिफेना चर्मकषेत्यपि॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विमला/ वि-मला f. a species of Opuntia L.
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--a रहस्ययोगिनी Devi1. Br. IV. १९. ४८.
(II)--the goddess enshrined at पुरुषोत्तम M. १३. ३५.
(III)--a R. from ऋष्यवान्. M. ११४. २६.
Purana Encyclopedia
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
VIMALĀ : A female calf born from Rohiṇī, the daughter of Surabhi. Rohiṇī had two daughters called Vimalā and Analā. (M.B. Ādi Parva, Chapter 66, Stanza 67).
_______________________________
*8th word in left half of page 856 (+offset) in original book.