विरजस्तमाः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विरजस्तमाः [स्] पुं, सत्त्वगुणविशिष्टः । तत्- पर्य्यायः । द्बयातिगः २ । इत्यमरः । २ । ७ । ४५ ॥ “विगते रजस्तमसी येषां ते रजस्तमोगुणशून्याः सत्त्वैकनिष्ठाः साक्षात्कृतब्राह्मणो जीवन्मुक्ता व्यासादयो द्वयातिगा उच्यन्ते । द्वयं द्वैतं अति- क्रम्य गच्छति इति डः ।” इति भरतः ॥
