सामग्री पर जाएँ

विराट्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विराट्, [ज्] पुं, (विशेषेण राजते इति । राज दीप्तौ + क्विप् ।) क्षत्त्रियः । इत्यमरः ॥ स्थूल- शरीरसमष्ट्युपहितचैतन्यम् । इति वेदान्त- सारः ॥ * ॥ (ब्रह्मणो विराड्मूर्त्तिवर्णनं यथा, शङ्करविजये ६ प्रकरणे । “व्यूहमूर्त्तिर्विराट् चतुर्द्दशलोकात्मकः । तस्य ब्रह्माण्डकर्परपर्य्यन्त- माकाशः शिरः, चन्द्रसूर्य्यौ नेत्रे, प्रागादिदिशः श्रोत्रे, अन्तरीक्षलोको घ्राणं, मेरुः पृष्ठवंशः, शिखरत्रयं भुजकण्ठाः, प्रत्यन्तपर्वताः पृष्ठपार्श्व- वक्षांसि, उपपर्वताः शाल्मल्यादीनि, समुद्रा रक्तं, लता स्नायूनि, तृणवृक्षाः रोमाणि, भूमिः कुक्षिः, द्वीपा वलयः, भूरेखा रोमराजिः, भूमध्यप्रदेशो वस्तिः, शेषः शिश्नं, दिग्दन्ति- पङ्क्तिर्नितम्बोरुभागः, अतलादिसप्तकं कटि- पादान्तरालः, कूर्म्मः पादौ इति ॥” * ॥) महा- विराजुत्पत्तिर्यथा, -- श्रीनारायण उवाच । “अथ डिम्बो जले तिष्ठन् यावद्वै ब्रह्मणो वयः । ततः स काले सहसा द्विधा भूतो बभूव ह ॥ तन्मध्ये शिशुरेकश्च शतकोटिरविप्रभः । क्षणं रोरूयमानश्च स्तनन्धः पीडितः क्षुधा ॥ पितृमातृपरित्यक्तो जलमध्ये निराश्रयः । ब्रह्माण्डसंघनाथो यो ददर्शोर्द्ध्वमनाथवत् ॥ स्थूलात् स्थूलतमः सोऽपि नाम्ना देवो महा- विराट् । परमाणुर्यथा सूक्ष्मात् परः स्थूलात्तथाप्यसौ ॥ तेजसा षोडशांशो यः कृष्णस्य परमात्मनः । आधारोऽसंख्यविश्वानां महान् विष्णुश्च प्राकृतः । प्रत्येकं लोमकूपेषु विश्वानि निखिलानि च । तस्यापि तेषां संख्याञ्च कृष्णो वक्तुं न हि क्षमः ॥ संख्या चेद्रजसाभस्ति विश्वानां न कदाचन । ब्रह्मविष्णुशिवादीनां तथा संख्या न विद्यते ॥ प्रतिविश्वेषु सन्त्येवं ब्रह्मविष्णुशिवादयः । पातालाद्ब्रह्मलोकान्तं ब्रह्माण्डं परिकीर्त्तितम् ॥ अत ऊर्द्ध्वे च वैकुण्ठो ब्रह्माण्डाद्वहिरेव च । स च सत्यस्वरूपश्च शश्वन्नारायणो यथा ॥ अत ऊर्द्ध्वञ्च गोलोकः पञ्चाशत्कोटियोजनात् । स्वर्गं मर्त्यञ्च पातालं त्रिलोकं सचराचरम् । एवं सर्व्वं लोमकूपे विश्वं प्रत्येकमेव च ॥ प्रतिविश्वे क्षुद्रविराट् ब्रह्मविष्णुशिवादयः । इत्येवं कथितं वत्स श्रीकृष्णकीर्त्तनं परम् ॥ सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ३ अध्यायः ॥ स्वायम्भुवमनुः । यथा, -- “गतेषु तेषु सृष्ट्यर्थं प्रणामावनतामिमाम् । उपयेमे स विश्वात्मा शतरूपामनिन्दिताम् ॥ सम्बभूव तया सार्द्धमतिकामातुरो विभुः । सलज्जां चकमे देवः कमलोदरमन्दिरे ॥ यावदन्दशतं दिव्यं यथान्यः प्राकृतो जनः । ततः कालेन महता ततः पुत्त्रोऽभवन्मनुः ॥ स्वायम्भुव इति ख्यातः स विराडिति नः श्रुतम् । तद्रूपगुणसामान्यादधिपूरुष उच्यते ॥ वैराजा यत्र ते जाता बहवः शंसितव्रताः । स्वायम्भुवा महाभागा सप्त सप्त तथापरे ॥ स्वारोचिषाद्या सर्व्वे ते ब्रह्मतुल्याः स्वरूपिणः । औत्तमिप्रमुखास्तद्वद्येषां त्वं सप्तमोऽधुना ॥” इति मात्स्ये ३ अध्यायः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विराट् in comp. for 2. वि-राज्.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

(I)--a Sutapa god. Br. IV. 1. १४.
(II)--is a name of स्वायम्भुव Manu. M. 3. ४५.
(III)--the son of Nara; फलकम्:F1:  वा. ३०. २६०; ३३. ५८; Vi. II. 1. ३८.फलकम्:/F a Pratardana god. फलकम्:F2:  वा. ६२. २६.फलकम्:/F
(IV)--one of the twenty Sutapa गणस्. वा. १००. १५.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

VIRĀṬ I : The son of the daughter of Priyavrata. Svāyam- bhuva Manu married Śatarūpā. Two sons Priyavrata and Uttānapāda were born to them. A daughter was born to Priyavrata. Prajāpati Kardama married her. Three sons named Samrāṭ, Kukṣi and Virāṭ were born to them. (Agni Purāṇa, Chapter 18).


_______________________________
*12th word in right half of page 860 (+offset) in original book.

VIRĀṬ II : (VIRĀṬ PURUṢA). Virāṭ Puruṣa is the first incarnation of Brahmā. (For details see under Sṛṣṭi).


_______________________________
*13th word in right half of page 860 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विराट्&oldid=437491" इत्यस्माद् प्रतिप्राप्तम्