विराधः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विराधः, पुं, (विराधयति लोकान् पीडयतीति । वि + राध + अच् ।) राक्षसभेदः । यथा, -- “लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा रामं ततोऽब्रवीत् । पिता मेऽभूत् सुपर्जन्यो माता मे च शतद्रुता ॥ विराध इति मामाह पृथिव्यां सर्व्वराक्षसाः । उत्सृज्य प्रमदामेनां पलायेतां पराङ्मुखौ ॥ तच्छ्रुत्वा राममाहेदं लक्ष्मणः किं प्रतीक्षसे ॥ इत्युक्तो लक्ष्मणो वीर आनम्य सुमहद्धनुः । उत्ससर्ज शरं घोरं कालदण्डोपमं ततः ॥ तच्छरीरं महाकायं भित्त्वा पातालमाविशत् ॥ पपाताशु गतप्राणः सफेनं रुधिरं वमन् । ततोऽसौ राममाहेदं प्राञ्जलिर्विनयान्वितः ॥ तुम्बुरुर्नाम गन्धर्व्वः प्रविष्टो राक्षसीं तनुम् । अभिशापादहं त्रोरं शप्तो वैश्रवणेन वै ॥ प्रसाद्यमानः स मया प्रावचन्मां पुनः पुनः । यदा दाशरथी रामो भविष्यति महाबलः ॥ शापस्यान्तोऽभविष्यत्ते तेन रामेण संयुगे । प्रसादात्तव मुक्तोऽहं गमिष्यामि स्वमालयम् ॥” इति वह्निपुराणे सूर्पणस्वाकर्णनासिकोत्कर्त्तनं नामाध्यायः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विराधः [virādhḥ], 1 Opposition.
Annoyance, vexation, molestation.
N. of a powerful Rākṣasa slain by Rāma.
