सामग्री पर जाएँ

विरूढः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विरूढः, त्रि, अङ्कुरितः । (यथा, “विरूढजान्नं अङ्कुरितधान्यकृतमन्नम् ।” इति माधवकृतरुग्वि- निश्चये शूलव्याख्याने विजयरक्षितः ॥) जातः । इति मेदिनी । ढे, ९ ॥ (यथा, रघुवंशे । २ । २६ । “गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गह्वरमाविवेश ॥”) आरोहणविशिष्टः । यथा । “सन्तुष्टे तिसृणां पुरामपि रिपौ कण्डूलदो- र्मण्डली लीलालूनपुनर्विरूढशिरसो वीरस्य लिप्सु- र्व्वरम् ।” इत्यादि मुरारिः ॥

"https://sa.wiktionary.org/w/index.php?title=विरूढः&oldid=166851" इत्यस्माद् प्रतिप्राप्तम्