विरूपः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विरूपः, त्रि, (विकृतं रूपं यस्य ।) कुत्सितः । कुरूपः । यथा, -- “विरूपोन्मत्तनिस्वानामकुत्सापूर्ब्बकं हि यत् । पूरणं दानमालाभ्यामनुग्रह उदाहृतः ॥” इति रामतर्कवागीशः ॥ (यथा, बृहत्संहितायाम् । ७० । २३ । “या तूत्तरोष्ठेन समुन्नतेन रूक्षाग्रकेशी कलहप्रिया सा । प्रायो विरूपासु भवन्ति दोषा यत्राकृतिस्तत्र गुणा वसन्ति ॥” परित्यक्तरूपः । यथा, ऋग्वेदे । १० । ९५ । १६ । “यद्विरूपाचरं मर्त्तेष्ववसंरात्रीः शरदश्चतस्रः ।” “यद्यदा विरूपा परं मनुष्यस्य सम्पर्कात् विगतसहजभूतदेवरूपाः ।” इति तद्भाष्ये सायणः ॥ नानारूपः । यथा, ऋग्वेदे । ३ । ५३ । ७ । “इमे भोजा अङ्गिरसो विरूपा दिवस्पुत्त्रासो असुरस्य वीराः ॥” “हे इन्द्र इमे यागं कुर्व्वाणा भोजाः सौदासाः क्षत्त्रियाः तेषां याजका विरूपाः विविधरूपा मेधातिथिप्रभृतयः ॥” इति तद्भाष्ये सायणः ॥ विरुद्धः । यथा, साहित्यदर्पणे । १० परिच्छेदे । “विरूपयोः संघटना या च तद्विषमं मतम् ॥” उदाहरणं यथा, -- “क्व वनं तरुवल्कभूषणं नृपलक्ष्मीः क्व महेन्द्रवन्दिता ॥”) स्वार्थे के विरूपकश्च ॥
विरूपः, पुं, सुमनोराजपुत्त्रः । यथा, -- “जाताः सुमनसः पुत्त्रास्त्रयः शूरा महाबलाः । सुमतिश्च विरूपश्च सत्यः शास्त्रार्थपारगाः ॥” इति कालिकापुराणे ९० अध्यायः ॥
