सामग्री पर जाएँ

विलक्षणः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विलक्षणः, त्रि, (विभिन्नं लक्षणं यस्य ।) भिन्नः । इति जटाधरः ॥ (यथा, भागवते । ५ । ६ । ६ । “अथैवमखिललोकपालसमो विलक्षणैर्जड- वदभूतवेशभाषाचरितैरविलक्षितभगवत्प्रभाव इति ॥” * ॥ यथा च भाषापरिच्छेदे । ११४ । “अस्मात् पृथगिदं नेति प्रतीतिर्हि विल- क्षणा ॥” विशिष्टं लक्षणं यस्याः ।) विशेषलक्षणयुक्तः । यथा, मत्स्यपुराणे । “अशौचान्ताद्दितीयेऽह्नि शय्यां दद्याद्विल- क्षणाम् । काञ्चनं पुरुषं तद्वत् फलपुष्पसमन्वितम् ॥ संपूज्य द्विजदाम्पत्यं नानाभरणभूषणैः । वृषोत्सर्गश्च कर्त्तव्यो देया च कपिला शुभा ॥” द्विजदम्पतीं पूजयित्वा काञ्चन प्रेतप्रतिकृतिरूपं पुरुषं फलवस्त्रयुतं शय्यायामारोप्य भूषित- द्विजदम्पतीभ्यां शय्यां दद्यात् । इति शुद्धि- तत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=विलक्षणः&oldid=166892" इत्यस्माद् प्रतिप्राप्तम्